SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ श्रीभगवती सूत्रम् स्पृष्टः पुरुषवैरेण वा - मारित पुरुषवैरभावेन, किंभूतेन ! 'आसन्न'त्ति आसन्नो वधो यस्माद् वैरात्तेनासन्नवधकेन, पुनः किम्भूतेन 'अणव'त्ति अनवकाङ्क्षणा - परप्राणनिरपेक्षा वृत्तिः - वर्त्तनं यत्र वैरे तेनानवकाङ्क्षणवृत्तिकेनेति । क्रियाधिकार एवेदमाह - द्वौ पुरुषौ 'सरिसय'त्ति (सू० ७१) सदृशकौ कौशल्यादिना 'सरित्तय'त्ति सहस्त्वचौ 'सरिव्वय'त्ति सहग्वयसौ 'सरिसभंड 'त्ति सहशानि भाण्डानि - कांस्यपात्रादीनि मात्रा - गणिमादिद्रव्यपरिच्छेदः उपकरणानि - अनेकधाऽऽवरणप्रहरणादीनि ययोस्तौ, 'बीरिय वज्झाई' ति वीर्यं वध्यं येषां तानि, 'सिद्धा णं अवीरिय'त्ति सकरणवीर्याभावादवीर्याः सिद्धाः, 'सेलेसियपडिवण्णय'त्ति शैलेशो- मेरुस्तस्य च यावस्था स्थिरतासाधर्म्यात् सा शैलेशी सा च योगनिरोधेन पञ्चहस्वाक्षरोच्चारकालमाना तां प्रतिपन्नका ये ते शैलेशीप्रतिपन्नकाः, 'लद्विवीरिएणं' ति वीर्यान्तरायक्षयक्षयोपशमतो या वीर्यलब्धिः सैव तद्धेतुत्वाद्वीर्यलब्धिः वीर्यं तेन सवीर्याः, एषां शैलेश्यवस्थानां च क्षायिकमेव लब्धिवीर्य, 'करणवीरिएणं' ति लब्धिवीर्यकार्यभूता क्रिया करणं तद्रूपं वीर्यं कर णवीर्यं, 'करणवीरिएणं सवीरियावि अवीरिया' वि, तत्र सवीर्या उत्थानादिक्रियावन्तः, अवीर्यास्तद्विपक्षाः, ते च अपर्या तकाले अवगन्तव्याः ॥ इति प्रथमशते अष्टमोद्देशक विवरणम् १-८ ॥ अथ नवमोद्देशे गुरुकादिपदसूत्रम्, 'आउली करें' ति ( सू० ७३) प्रचुरीकुर्वन्ति कर्मभिः 'परितीकरिं 'ति स्तोकं कुर्युः कर्म्मभिः 'दीही करंति' दीर्घं प्रचुरकालमिति, ह्रस्वीकरेंति - अल्पकालमिति 'अणुपरियहंति' पौनःपुन्येन भ्रमन्ति, 'बीईवयंति' व्यतित्रजन्ति, पसत्था चत्तारि, लघुत्वपरीतत्वहस्वत्वव्यवित्रजनदण्डकाः प्रशस्ताः, मोक्षाङ्गत्वात्, अपसस्था चत्तारि, गुरुत्वाकुलत्वदीधनुपरिवर्तनदण्डकाः अप्रशस्ताः, संसारहेतुत्वात्, 'सत्तमे णं' ति (सू. ७४ ) इह चेयं गुरुलघुत्वव्यवस्था, “निच्छयओ सव्वगुरुं HOME DOHO १ शतके ८ उद्देशः ॥३७॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy