________________
श्रीभग
HINumme
१ शतके
वती
सूत्रम्
तिष्ठेत , मृगवधेच्छुः, अन्यश्च कोपि पुरुषस्तस्य मृगपातेच्छोः, 'मग्गउ'त्ति पृष्ठतः आगम्य 'सयपाणिण'त्ति स्वकपाणिना तस्य शीर्ष छिन्द्यात् , 'से यत्ति स च उसूत्ति इषुः, 'पुवायामेण'त्ति पूर्वाकर्षणेन तं 'मियंति मृगं 'वधिज्जा' हन्यात् , | 'से णं भंते ! पुरिसे'त्ति स मृगवधेच्छुशिरश्छेत्ता पुरुषः किं मृगवैरेण स्पृष्ट इति, अथ शिरश्छेत नरहेतुकत्वादिषुनिपातस्य कथं धनुर्द्धरपुरुषो मृगवधेन स्पृष्ट इत्याकूतवतो गौतमस्य तदभ्युपगतमेवार्थमुत्तरतया प्राह वीरः-गौतम! क्रियमाणं धनुःकाण्डादि कृतं इति व्यपदिश्यते, 'संधिजमाणे'त्ति सन्धीयमानं-प्रत्यञ्चायामारोप्यमाणं काण्डे धनुर्वाऽऽरोष्यमाणप्रत्यञ्चं सन्धितं-कृतसन्धानं स्यात् , 'निवित्तिज्जमाणे'त्ति निर्वय॑मानं-नितरां वर्तुलीक्रियमाणं प्रत्यञ्चाकर्षणेन निर्वर्तितं-वृत्तीकृतं स्यात् 'णिसरिजमाणो त्ति निसृज्यमाणं-क्षिप्यमाणं काण्डं निसृष्टं, यदा च निसृज्यमानं स्यात् तदा निसृज्यमानताया धनुर्द्धरेण कृतत्वात् तेन काण्डं निसृष्टं स्यात् , काण्ड निसर्गाच्च मृगस्तेनैव मारितः हे गौतम ! 'जे मियंति यो मृगं मारयति स मृगवैरेण स्पृष्टः, 'जे पुरिसंति यः पुरुषं मारयति स पुरुषवैरेण स्पृष्टः इत्युत्तरं, 'अंतो छण्हंति षण्मासमध्ये यदि मृगो म्रियते तदा स मृगवधेच्छु: कायिकादिपश्चक्रियाभिः स्पृष्टः(घातकोत्वात् , 'बाहिं छहंति षण्मासात् बहिः-परतो यदि मृगमृतिः स्यात् तदा कायिकादिचतसृभिः स्पृष्टः, षण्मासादूर्ध्व तस्य प्राणातिपातक्रिया पश्चमी न लगति इत्युक्तं व्यवहारनयापेक्षया, अन्यथा यदा कदाऽप्यधिकृतप्रहारहेतुकं मरणं स्यात् मृगादेः तदैव तस्य प्राणातिपातक्रिया लगति, 'सत्तीए'त्ति शक्त्या-प्रहरणविशेषेण 'समभिधंसेज'त्ति हन्यात् , 'काइयाए'त्ति कायिक्या-वपुःस्पन्दरूपया अधिकरणिक्या-शक्तिखड्गव्यापाररूपया प्राद्वेषिक्या-मनोदुष्प्रणिधानेन परितापनिक्या-परितापनरूपया प्राणातिपातक्रियया मारणरूपया शक्त्याऽभिध्वंसकः असिना वा शिरश्छेत्ता पश्चक्रिया
n tiafterinamDITIMMImhintamman imuntain
m
ent