________________
श्रीभगवती
सूत्रम्
'वोयसिज्ज' त्ति व्यवकृष्यमाणं हीयमानं । 'गन्भगए समाणे 'त्ति, (सू. ६३ ): गर्भगतः सन् मृत्वेति शेषः, 'एगइए' त्ति स गर्भः राजादिगर्भरूपः संज्ञित्वादिविशेषणानि च गर्भस्थस्यापि नरकप्रायोग्यकर्मबन्धसम्भवाभिधायितयोक्तानि वीर्यलब्ध्या वैक्रिय| लब्ध्या सङ्ग्रामयतीति योगः, अथवा वीर्यलब्धिको वैक्रियलब्धिकश्च सन्नित्यर्थः, परानीकं – शत्रुसैन्यं श्रुत्वा श्रुतिभ्यां निशम्यमनसाऽवधार्य 'पएसे निच्छु भइ' गर्भदेशाद्बहिः क्षिपति, 'समोहणइ' त्ति समवहन्ति, समवहतः स्यात्, तथाविधपुद्गलग्रहणार्थ, सङ्ग्रामं सङ्ग्रामयति-युद्धं कुर्यात्, 'कामकामे 'ति कामौ शब्दरूपे ' अत्थकामए'त्ति अर्थ- द्रव्ये कामो - वांछा यस्यासौ अर्थकामकः, एवं राज्यकामकः, 'भोगकामए' त्ति भोगा - गन्धरसस्पर्शास्तेषां कामः भोगकामकः, 'अत्थकंखिए 'त्ति अर्थे काङ्क्षा - गृद्धिरासक्तिर्यस्येति सोऽर्थकाङ्क्षितः, अर्थपिपासितः, पिपासा प्राप्तेऽप्यर्थेऽतृप्तिः, 'तच्चित्ते 'ति चित्तं - सामान्योपयोगरूपं 'तम्मणे' न्ति मनो- विशिष्टोपयोगरूपं 'तल्ले से त्ति लेश्या - आत्मपरिणामविशेषः 'तदज्झव' त्ति अध्यवसितं - परिभोगक्रियासम्पादन विषयमस्येति तदध्यवसितः, 'तत्तित्र्वज्झवसाणे'त्ति आरम्भकालादारभ्य प्रकर्षयायि अध्यवसानं - प्रयत्नविशेषो यस्य सः 'तदट्ठोव'त्ति उपयुक्तोऽवहितः, 'तदप्पियकरण' त्ति तस्मिन्नेव अर्थादौ अर्पितानि - आहितानि करणानि - इन्द्रियाणि कृतकारितानुमतिरूपाणि येन सः 'तभावण' त्ति तद्भावना - अर्थसंस्कारस्तेन भावितो यः सः 'एयंमि' त्ति एतस्मिन्नन्तरे - सङ्ग्रामकरणावसरे, श्रमणस्य - साधोः 'माहणस्स' त्ति मा हनेत्येवमादिशति स्वयं स्थूलप्राणातिपातादिनिवृत्तत्वाद् यः स माहनः, अथवा ब्रह्मचर्यस्य देशतः सद्भावात् ब्राह्मणो देशविरतस्तस्य वा, 'आरियं'ति आराद्यातं पापकर्मभ्य इत्यार्य, 'धम्म' त्ति धर्मः श्रुतचारि लक्षणः पुण्यं तत्फलभूतं शुभकर्म 'अंबखुजए' त्ति आम्रफलवत्कुन्ज : 'अच्छेज' आसीत सामान्यतः 'चिज' ऊर्ध्वस्थानेन 'निसी
११ शतके ७ उद्देशः
||३५||