SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ श्रीभग वती सूत्रम् 'जं से 'त्ति, या तस्य गर्भस्य माता 'रसविगईउ' त्ति रसरूपा विकृतीर्दुग्धाद्या रसविकारान् 'तदेगदेसेणं' ति तासां - रसवि - कृतीनामेकदेशस्तदेकदेशस्तेन सह ओज आहायति, उच्चारो - विष्ठा, प्रश्रवणं-मूत्रं, खेलो - निष्ठीवनं, 'सिंघाणगं' ति नासिका श्लेष्म 'के समंसु 'त्ति केशाः - कूर्चरूपाः रोमाणि - कक्षादिकेशाः, जीवेणं' ति गर्भगतो जीवः, प्रभुः - समर्थो मुखेन कावलिकमाहारमाहारयितुं ?, अत्रोत्तरम् -'नो तिणमट्ठे' नायमर्थः समर्थः, 'सव्वओ' त्ति सर्वात्मना, 'अभिक्खणं 'ति पुनः २ 'आहच 'त्ति कदाचिदाहारयति कदाचिन्नाहारयति तथास्वभावत्वात्, ततो मुखेन न प्रभुः समर्थः कावलिकमाहारमाहर्तुमिति भावः, अथ कथं सर्वत आहारयति इत्याह - रसो हियते - आदीयते यया सा रसहरणी, नाभिर्नालमित्यर्थः, मातृजीवरसहरणी पुत्रजीवरसहरणी, पुत्रस्य रसोपादाने कारणत्वात् कथमित्याह- मातृजीवप्रतिबद्धा सती सा यतः पुत्रजीवं स्पृष्टवती, इह च प्रतिबद्धता गाढसम्बन्धः, तदंशत्वात् स्पृष्टता च सम्बन्धमात्रं अतदंशत्वात्, मातृजीवरसह ० पुत्रजीवरस० द्वे नाड्यौ स्तः, ततस्तयोश्चाद्या मातृजीवप्रतिबद्धा पुत्रजीवस्पृष्टा, तस्मान्मातृजीवरसहरण्या प्रतिबद्धया पुत्रजीवस्पर्शनात् आहारयति, 'अवराविति पुत्रजीवरसहरण्यपि च पुत्रजीवप्रतिबद्धा सती मातृजीवं स्पृष्टवतीति, तस्माच्चिनोति शरीरं, उक्तं च तंत्रान्तरे - " पुत्रस्य नाभौ मातुश्च, हृदि नाडी निबध्यते । ययाऽसौ पुष्टिमाप्नोति, केदार इव कुल्यया ॥ १॥” इति, 'मत्थुलुंगे 'ति मस्तक भेजकं, अन्येऽप्याहुः - मेदः, फिप्फसादि मस्तुलुङ्गमिति भाव:, 'अट्ठिमिंज' त्ति अस्थिमध्यावयवः, 'अम्मा पिकणं' ति अम्बापैतृकं, शरीरावयवेषु शरीरोपचारात्, 'केवइयं'ति कियत्कालं गर्भे तिष्ठति, 'जावइयं'ति यावत्कालं 'से'ति तस्य जीवस्य भवधारणीयं- भवधारणप्रयोजनं, मनुष्यादिभवोपग्राहकमिति, 'अव्वावण्णे'त्ति अव्यापन्नं - अविनष्टं, 'अहे णं'ति उपचयान्तिमसमयादनन्तरमेतत्, अम्बापैतृकं शरीरं POOCHI BHADOHINI CHODAN 000 00 00 00 001, INNOCENCHANTOS ९ शतके ७ उद्देशः
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy