SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ श्रीभगवती ६ उद्देशः सूत्रम् । लोकादिभावान् रोहकाख्यमुनिद्वारेण दर्शयितुमाह-'आलीणे'त्ति (सू. ५४) गुरुसमाश्रितः संलीनो वा 'भदए'त्ति अनुपता १ शतके पको गुरुशिक्षागुणात् 'सत्तमे उवासन्तरे'त्ति सप्तमपृथिव्या अधोवाकाशमिति, अत्र सङ्गहगाथा वाच्या, तत्र 'उवासंति, सप्त अवकाशान्तराणि 'वाय'त्ति तनुवाता ७ धनवाताः ७ घणउदहित्ति घनोदधयः सप्त, 'पुढवित्ति सप्त पृथ्व्यः, 'द्वीव'त्ति जम्बूद्वीयादयोऽसङ्ख्याताःसागरा-लवणादयोऽपि असङ्ख्याताः, 'वास'त्ति वर्षाणि भरतादीनि ७,'नेरइयाईति २४ दण्डकाः, H'अस्थित्ति अस्तिकायाः पञ्च, 'समय'त्ति कालविभागाः, कर्माण्यष्टौ लेश्याः ६, दृष्टयो मिथ्यादृष्ट्यादयः ३, दर्शनानि ४ ज्ञानानि ५ संज्ञाः ४ शरीराणि पश्च योगाः ३ उपयोगौ द्वौ द्रव्याणि ६ प्रदेशा अनन्ताः पर्यवा अप्यनन्ताः 'अद्ध'त्ति अतीताद्धा अनागताद्धा सर्वाद्धा वा, अत्रैवं सूत्रामिलापः 'पुब्बिं भंते ! लोए पच्छा सव्वद्धा' इति, एतानि सूत्राणि शून्यज्ञानादिवाद निरासेन विचित्रबाह्याध्यात्मिकवस्तुसत्ताभिधानार्थानि, शम्भुकृतत्वनिरासेन वाऽनादित्वाभिधानार्थानि । अथ गौतममुखेनाह–'कइविहा णं'ति (सू. ५५) आकाशप्रतिष्ठितो वातः-तनुवातघनवातरूपः, तस्य चाकाशान्तरोपरिस्थितत्वात् , आकाशं तु स्वप्रतिष्ठितमेव, न तत्प्रतिष्ठाचिंता कार्या, तथा वातप्रतिष्ठित उदधिः, घनोदधेस्तनुधनवातोपरिस्थितत्वात् २, उदधिप्रतिष्ठिता पृथिवी, घनोदधीनामुपरिस्थितत्वात् रत्नप्रभादीनां, बाहुल्यापेक्षया चेदं उक्तं, अन्यथा ईषत्प्राग्भारा पृथ्वी आकाशप्रतिष्ठितैव ३ सुगम, पृथ्वीप्रतिष्ठितास्त्रसस्थावराः प्राणाः, इदमपि प्रायिकमेव, यतः आशाशविमानगिरिस्थिता अपि ते सन्ति इति ४, अजीवाः-शरीरादिपुद्गलाः, ते जीवप्रतिष्ठिताः, जीवेषु तेषां स्थितत्वात् ५, जीवाः कर्मप्रतिष्ठिताः, कर्मसु अनुदयावस्थकर्मपुद्गलसमुदयरूपेषु संसारिजीवानामाश्रि-ID३॥ तत्वात् , अथवा जीवाः कर्मभिः प्रतिष्ठिताः-नारकादिभावेनावस्थिताः ६, तथा अजीवा जीवासगृहीता ?, मनोभावादेः पुद्गलानां
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy