SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ श्रीभगवती सूत्रम् क्षिप्रभृतिद्रव्यस्य या छाया तदन्त आतपान्तं चतुर्दिक्षु स्पृशति सः, तथा तस्या एव छायाया भूमेः सकाशात् तत् द्रव्यं यावदुच्छ्रयोऽस्ति ततश्च छायान्त आतपान्तं ऊर्ध्वमधश्व स्पृशति, अथवा प्रासादवरण्डिकादेर्या छाया तस्या मित्तेरवतरन्त्या आरोहन्त्या वा अन्त आतपान्तमूर्ध्वमधश्व स्पृशतीति, अथवा छायातपयोरेव पुद्गलानां असङ्ख्ये यप्रदेशावगाहित्वादुच्छ्रय सद्भावस्तत्सद्भावाच्चोर्ध्वाधोविभागः, ततः छायान्त आतपान्तमूर्ध्वमधथ स्पृशेत् इति भावनीयं । स्पर्शनाधिकारात् प्राणातिपातादिपापस्थानकस्पर्शनामाह - 'अस्थि'त्ति, (५३ सू० ) अस्ति अयं पक्षः, 'किरिया कजड़' इति क्रियत इति, क्रिया-कर्म सा क्रियते भवति, 'पुढे' त्यादि, व्याख्या पूर्ववत्, 'कडा कज्जइ'ति कृता भवति, अकृतस्य कर्मणोऽभावात्, आत्मकृतमेव कर्म स्यात्, नान्यथा, 'अणाणुपुवि'त्ति, पूर्वपचाद्विभागो यत्र नास्ति सा अनानुपूर्वी उच्यते, 'जहा नेरइया तहा एगिंदियवज्जा भाणियव्वा' नारकवदसुरादयो वाच्याः एकेन्द्रियवर्जाः तेषां हि दिकूपदे 'निव्वाघाएणं छद्दिसं, वाघायं पहुंच सिय तिदिसंति' इत्यादि विशेषाभिलापस्य जीवपदोक्तस्य भावाद्, अत एवाह - 'एगिंदिया जहा जीवा तहा भाणियव्वा, 'पेज' त्ति, अनभिव्यक्तमायालोभखभावमभिष्वङ्गमात्रं प्रेम, 'दोसे' त्ति अनभिव्यक्तक्रोधमानखरूपमप्रीतिमात्रं द्वेषः, 'अन्भक्खाणे 'त्ति असद्दोषाविष्करणम्, पेसुन्न'त्ति प्रच्छन्नमसद्दोषाविष्करणं, 'परपरिवार'त्ति प्रकीर्ण परेषां गुणदोषवचनं, 'अरइरइ' त्ति अरति : - मोहनीयोदयाच्चित्तोद्वेगः रतिः - विषयेषु मोहनीयोदयाच्चित्ताभिरतिः, अरतिरतिरिति, 'मायामोसे' तृतीयकपायद्वितीयाश्रवयोः संयोगाः, अनेन च सर्वसंयोगा उपलक्षिताः, अथवा वेपान्तरकरणेन यत्परवञ्चनं तन्मायामृषा, 'मिच्छादंसण सल्ले' त्ति, मिथ्यादर्शनं शल्यमिव विविधव्यथानिबन्धनत्वात्, मिथ्यादर्शनशल्यमिति ॥ एवं गौतमद्वारेण कर्म प्रज्ञप्तम्, तच्च शाश्वतं अतः शाश्वतानेव CLOSEDEGGELOLOLOLOGIC ९ शतके १६ उद्देशः
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy