________________
श्रीभगवती
सूत्रम्
स्पृश्यमानस्पृष्टयोश्चैकत्वं मन्तव्यमिति प्रथमसूत्रात्, स्पर्शनामेवाधिकृत्याह - "लोयंते भंते! अलोयतं ति (५२ सू० ) लोकान्तः सर्वतोऽलोकान्तं अलोकान्तो लोकान्तं, इहापि 'पुङ्कं फुसइ' इति, योज्यं, यावन्नियमात् षदिशः, एतद्भावना चैवं - स्पृष्टम लोकान्तं लोकान्तं स्पृशति, स्पृष्टत्वं च व्यवहारतो दूरस्थस्यापि दृष्टं यथा चक्षुः स्पर्शः, अवगाढं- आसन्नमिति, तदपि अनन्तरावगाढम् - अव्यवधानेन सम्बद्धं, न तु परम्परावगाढं शृङ्खलाकटिकावत् परम्परासम्बद्धं तं चाणुं स्पृशति, अलोकान्त प्रदेशमात्रं, सूक्ष्मत्वात्, बादरमपि च बहुदेशत्वात्, तमूर्ध्वमधस्तिर्यग् च स्पृशेत्, ऊर्ध्वादिदिक्षु लोकान्त व्यालोकान्तस्य च भावात्, तमादौ मध्येऽन्ते च स्पृशति, कथम् ?, आदिमध्यान्तकल्पनात् तिर्यगूर्ध्वाधोलोकप्रान्तानां तं च स्वविषये स्पृशति स्पृष्टावगाढादौ, नाविषयेऽस्पृष्टादाविति, तं चानुपूर्व्या, आनुपूर्वी चेह प्रथमस्थाने लोकान्तः ततो द्वितीयस्थाने अलोकान्त इत्यवस्थानतया स्पृशेत्, अन्यथा तु स्पर्शनैव न स्यात् तं च षट्सु दिक्षु स्पृशेत्, लोकान्तस्य पार्श्वतस्सर्वतोऽलोकान्तसद्भावात् विदिक्षु च स्पर्शना नास्ति, दिशां लोक विष्कम्भप्रमाणत्वात्, विदिशां च तत्परिहारेण भावात् एवं द्वीपसागरान्तमुत्रेषु स्पृष्टादिपदभावना कार्या, द्वीपान्तसागरान्ते 'छद्दिसं' ति अस्यैवं भावना - योजनसहस्रावगाढा द्वीपाश्च समुद्राः स्युः, ततश्चोपरितनानधस्तनांश्च द्वीपसमुद्र प्रदेशानाश्रित्योर्ध्वाधोदिग्द्वयस्पर्शना वाच्या, पूर्वादिदिशां तु प्रतीतैव समन्ततस्तेषामवस्थानात्, 'उदयंते पोतंतं'ति' नद्याद्युदकान्तं पोतान्तं-नौपर्यवसानं, इहाप्यु च्छ्रयापेक्षया ऊर्ध्वदिकस्पर्शना वाच्या, जलनिमञ्जने वेति, 'छिद्दते दूसंतं'ति, छिद्रान्तो 'दूसंतं' ति छिद्रान्तो दृष्यान्तं-वस्त्रान्तं स्पृशति, इहापि पदिकस्पर्शभावना वस्त्रोच्छ्रयापेक्षया, अथवा कम्बलरूपवस्त्रपोट्टलिकायां तन्मध्योत्पन्नजीवभक्षणेन तन्मध्यरन्ध्रापेक्षया लोकान्तसूत्रवत् षदिक्स्पर्शना भावयितव्या, 'छायंते' त्ति, इह छायाभेदेन षदिग्भावनैवम् आतपे व्योमवर्त्तिप
PHONE WHOSENEONE HONE MONEY PHONE WHO Oully in Old
#0001
शतके
६ उद्देशः
॥३१॥