________________
श्रीभगवती
सूत्रम्
फरिसं'ति चक्षुषो दृष्टेः स्पर्श इव स्पर्शो, न तु स्पर्श एव, चक्षुषोऽप्राप्तकारित्वात्, 'हव्वं'ति शीघ्रं स सूर्यः सर्वाभ्यन्तरमण्डले सप्तचत्वारिंशति योजनानां सहस्रेषु द्वयोः शतयोः त्रिपष्टौ च साधिकायां वर्त्तमान उदये दृश्यते, तदस्तमयेऽप्येवं इति, मण्डल - विचारः स्थानान्तरादवसेयः । 'सव्वओ समंत'त्ति सर्वतो दिक्षु समन्तात् विदिक्षु च 'ओभासइ'त्ति अवभासयति ईषत् स्थूलमेव प्रकाशयति, 'उजोवे' भृशं उद्योतयति, 'तवेइ'त्ति तपति - शीतनाशं कुर्यात् इति, (प्रभासयति) यथा सूक्ष्मं वस्तु दृश्यते तथा कुर्यात् इति, अथ क्षेत्रमाश्रित्याह- 'तं भंते 'त्ति यत् क्षेत्रमवभासयति उद्योतयति तपति प्रभासयति तत् क्षेत्रं किं भदन्त ! स्पृष्टं अस्पृष्टं वावभासयति ?, इह यावत्करणादिदं दृश्यं, गो० ! पुट्ठे, नो अपुढं ओभासेइ, तओ ओगाढं अणोगाढं १, गो० ! ओगाढं, नो अणोगाढं, एवं अणंतरोगाढं, नो परंपरोगाढं, तं भंते ! किं अणुयं बायरमोभासह १, गो० ! अपि अभासेइ बायरंपि ओभासेइ, तं किं उडूं तिरियं अहे ओभा० ?, गो० ! उडूंषि ३, तं भंते! किं आई मज्झे अंते ओभासेइ ?, गो० ! आईपि ३, तं भंते ! सविसए अविसए ?, गो० ! सवि० नो अविसए, तं भंते ! आणुपुत्रि अणाणुपुत्रि ओभा० १, गो० ! आणुपु० नो अणाणुपु०, तं भंते! कइदिसि ओभासह १, गो! ०णियमा छद्दिसिंति, एतेषां पदानां 'उजोएइ०' इति पदत्रयेण योजना वाच्या, 'पुडं' ति स्पृष्टं क्षेत्रं प्रभासयति, अथ स्पर्शनामाह-'से नूणं'ति, 'सव्वंति 'त्ति प्राकृतत्वात् सर्वतः सर्वासु दिक्षु 'सव्वावंति 'त्ति सर्वेण वा आतपेन आप्तिः - प्राप्तिर्यस्य क्षेत्रस्य तत्सर्वाप्ति, सर्वेण वा आतपेन आपो-व्याप्तिर्यस्य तत्सर्वापं, सह व्यापेन आतपव्याया यत् तत्सव्यापं, इतिशब्दः सामान्यार्थः, 'फुसमाणकालसमयंमि'त्ति स्पृश्यमानक्षणे, अथवा स्पृशतः सूर्यस्य स्पर्शनायाः कालसमयः स्पृशत्कालसमयः, आतपेनेति गम्यते, यावत् क्षेत्रं स्पृशति सूर्यः, 'तावइयं' ति तावत् क्षेत्रं स्पृश्यमानं स्पृष्टमिति, 'हन्ते' त्युत्तरं
९ शतके ६ उद्देशः