________________
श्रीभग
१ शतके ५ उद्देशः
वती
सूत्रम्
'वणप्फइए'त्ति वनस्पतयः पृथ्वीवद्वाच्याः, दशखयि स्थानकेषु भङ्गकाभावात् तेजोलेश्यायां च तथैवाशीतिभासद्भावादिति ।। ननु पृथिव्यब्वनस्पतीनां दृष्टिद्वारे सास्वादनभावेन सम्यक्त्वं कर्मग्रन्थेष्वभ्युपगम्यते, तत एव च ज्ञानद्वारे मतिज्ञानं श्रुतज्ञानं च, अल्पाश्चैत एव ततोऽशीतिर्भङ्गाः सम्यग्दर्शनाभिनिबोधिकश्रुतज्ञानेषु भवन्तु, नैवं, पृथिव्यादिषु सास्वादनभावस्यात्यन्तविरलत्वेन | अविर्वाक्षितत्वात् , तत एवोच्यते-'उभयाभावो पुढवाइएसु विगलेसु होइ उववन्नो'त्ति, उभयं-प्रतिपद्यमानपूर्वप्रतिपन्नरूपं इति । 'बेदियत्ति(सू०५०)जेहिं ठाणेहिं णेरइयाणं असीति भंगा तेहिं ठाणेहिं दियतेंदियचउरिंदियाणं असीइंचेव, तत्र एकादिसङ्ख्यातान्तसमयाधिकायां जघन्यस्थितौ १ जघन्यावगाहनायां च २, तत्रैव च सङ्ख्येयान्तप्रदेशवृद्धायां३ मिश्रदृष्टौ ४ च, नारकाणामशीतिर्भङ्गाः उक्ताः, विकलेन्द्रियाणामप्येतेषु स्थानेषु मिश्रदृष्टिवर्जेष्वशीतिरेव, अल्पत्वात् तेषां क्रोधाधुपयुक्तस्यैकैकय सम्भवात् , मिश्रदृष्टिस्तु विकलेन्द्रियेषु न स्यात् इति न विकलेन्द्रियाणां तत्राशीतिभङ्गसम्भव इति, इहैव विशेषाभिधानायाह-'णवर मिति, दृष्टिद्वारे ज्ञानद्वारे च नारकाणां सप्तविंशतिरुक्ता विकलेन्द्रियाणां तु अब्भहियंति, अभ्यधिकानि अशीतिर्भङ्गकानां च भवति, क्वेत्याह-सम्यक्त्वे, अल्पीयसां हि विकलेन्द्रियाणां सास्वादनभावेन सम्यक्त्वं, अल्पत्वाच तेषामेकत्वस्यापि सम्भवादशीतिर्भङ्गाः, एवं मतिज्ञाने श्रुतज्ञाने च, तथा 'जेही त्यादि, येषु स्थानेषु नारकाणां सप्तविंशतिर्भङ्गाः तेषु स्थानेषु द्वित्रिचतुरिन्द्रियाणां भङ्गकाभावः, तानि च प्रागुक्ताशीतिभङ्गकस्थानावशेषाणि मन्तव्यानि, भङ्गकाभावश्च क्रोधाधुपयुक्तानामेकदैव बहूनां भावादिति, विकलेन्द्रियसूत्राणि पृथ्वीकायसूत्राणीवाध्येयानि, नवरमिह लेश्याद्वारे तेजोलेश्या नाध्येतव्या, दृष्टिद्वारे 'बेइंदिया णं भंते ! किं सम्मद्दिवी मिच्छ सम्मामिच्छ०१, गो० सम्मदिट्ठी मिच्छ०(णो)सम्मामिच्छद्दिट्ठी 'सम्मईसणे वद्यमाणा बेइंदिया कि कोहोवउत्ता' इति प्रश्ने