SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ श्रीभग वती १ शतके ५ उद्देशः सूत्रम् तेनाभङ्गक दशस्वपि स्थानेषु योज्यं, नवरं 'तेउलेसाए'त्ति पृथ्वीकायिकलेश्याद्वारे तेजोलेश्या वाच्या, सा च यदा देवलोकच्युतो देव एकोऽनेका वा पृथ्वीपूत्पद्यते तदा सा स्यात् , तत्र तदेकादिभवनादशीतिर्भङ्गाः स्युः, शेषाणि तु नारकवद्वाच्यानि. 'णाणत्तं जाणियव्वं ति नानात्वं यत् पूर्वोक्तं, तच्चेदं शरीरादिषु सप्तसु ज्ञेयम्-'असंखिजेसु णं पुढविकाइयावाससयसहस्सेस पुढवीकाइयाणं कइ सरीरगा पं०?, गो०! तिण्णि, तं०-ओरालिए तेयए कम्मए, एतेषु च 'कोहोवउत्ता' इत्यादि वाच्यं, तथा | 'असंखेजा णं पुढवीकाइया णं किंसंघयणी ?, तथैव नवरं पोग्गला अमणुन्ना मणुना सरीरसंघायत्ताए परिणमंति' एवं संस्थानद्वारे|ऽपि, 'किंसंठिया पण्णत्ता ?, गो! हुंडसंठियावि' इति वाच्यं, न तु 'दुविहा सरीरगा पण्णत्ता, तं०-भवधारणिज्जा उत्तरवेउब्बिया |येति, यतः पृथ्वीकायिकानां तदभावात् , अथ लेश्याद्वारे-'पुढवीकाइया णं भंते ! कइलेसा पं०?, गो०! चत्तारि, तं०-किण्हा नीला काउ तेउ' आद्यासु तिसृष्वभङ्गकमेव, तेजोलेश्याविधिः पूर्वोक्त एव, दृष्टिद्वारे इदं वाच्यं-'असंखेजपुढविकाइयाणं किं सम्मट्टिी| मिच्छ० सम्मामिच्छ०?, गो०! मिच्छद्दिट्ठी', शेषं तथैव, ज्ञानद्वारे 'पुढविकाइया णं भंते ! आणी अन्नाणी ?, गो! अन्नाणी' योग द्वारे 'पुढविकाइया कि मणजोगी वय० कायजोगी ?, गो०! नो मण० नो वय० कायजोगी'। 'एवं आउकाइयावित्ति, पृथ्वी| वदप्कायिका वाच्याः,दशस्वपि स्थानेषु अभङ्गा वाच्याः,तेजोलेश्यायामपि तथैवाशीतिर्भङ्गाः,यतो देवध्युतोऽत्र उत्पद्यत इति । 'तेउ|काए' इत्यादि, 'सव्वेसुवि ठाणेसु'त्ति स्थितिस्थानादिदशस्खपि अभङ्गक, क्रोधाद्युपयुक्तानामेकदैव बहूनां तेषु भावात, इह देवो नोत्पद्यत इति तेजोलेश्या तेषु नास्ति, ततस्तदसम्भवान्नाशीतिरपीत्यभङ्गकं, एतेषु सूत्राणि पृथ्वीकायसमानि, केवलं वायुकायसूत्रेषु शरीरद्वारे एवमध्येयं-'असंखिजेसुणं भंते !०वाउकाइयाणं कइ सरीरगापं०?, गो०! चत्तारि तं०-ओरालिए वेउब्विए तेयए कम्मए
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy