________________
श्रीभगवतीसूत्रम् ।
शतके ५ उद्देशः
MORE
रूपसचयतयेत्यर्थः, संस्थानद्वारे 'किंसंठिय'त्ति किं संस्थितं-संस्थानं येषां तानि किंसंस्थितानि, 'भवधारणित्ति भवधा- रणं-निजजन्मातिवाहनं प्रयोजनं येषां तानि भवधारणीयानीति, उत्तरवेउव्व'त्ति पूर्ववैक्रियापेक्षया उत्तरकालभावीनि वैक्रियाणि, 'हुंडसंठिय'त्ति सर्वत्रासंस्थितानि, दृष्टिद्वारे 'सम्मामिच्छादसणे असीईत्ति(सू०४७)मिश्रदृष्टीनामल्पत्वात्,तद्भावस्थापि च कालतोऽल्पत्वादेकोऽपि लभ्यते इत्यशीतिभङ्गाः। ज्ञानद्वारे 'तिन्नि नाणाई नियम'त्ति ये ससम्यक्त्वा नरक उत्पद्यन्ते तेषां प्रथमसमयादारभ्य भवप्रत्ययस्यावधिज्ञानस्य भावात् त्रिज्ञानिन एव ते, ये तु मिथ्यादृष्टयस्ते संज्ञिभ्योऽसंज्ञिभ्यश्चोत्पद्यन्ते, तत्र ये| | संज्ञिभ्यस्ते भवप्रत्ययादेव विभङ्गस्य भावाच्यज्ञानिनो, ये त्वसंज्ञिभ्यस्तेषामाद्यादन्तर्मुहूतात् परतो विभङ्गोत्पत्तिरिति तेषां पूर्वमज्ञा
नद्वयं, पश्चाद् विभङ्गोत्पत्तावज्ञानत्रिकमित्युच्यते-'तिण्णि अण्णाणाई भयणाए'त्ति, भजनया-विकल्पनया, कदाचित् द्वे | कदाचित्रीणि इत्यर्थः, अत्रार्थ गाथे स्याताम्-"अस्सन्नी नरएसुं पञ्जत्तो जेण लहइ विभंगं । नाणा तिन्नेव तओ अन्नाणा दोण्णि | | तिण्णेव ॥१॥ सन्नी नेरइएमुं उरलपरिचायणंतरे समए । विभंगं ओहिं वा अविग्गहे विग्गहे लहइ ॥२॥" आभिनिबोधिकज्ञानवत् सप्तविंशतिभङ्गोपेतानि आद्यानि त्रीणि ज्ञानानि अज्ञानानि वा, इह च त्रीणि ज्ञानानि इति यदुक्तं तदाभिनिबोधिकस्य पुनर्गणनेन, अन्यथा द्वे एव ते वाच्ये स्याता, 'तिणि अण्णाणाई' इत्यत्र यदि मतिश्रुताज्ञाने विभङ्गात् पूर्वकालभाविनी विवक्ष्येते | तदाऽशीतिभङ्गा लभ्यन्ते, अल्पत्वात्तेषां, किन्तु जयन्यावगाहनास्ते, ततो जघन्यावगाहनाश्रयेणेवाशीतिर्भङ्गास्तेषां ज्ञेयाः, योगद्वारे |'एवं कायजोएत्ति इह यद्यपि केवलकार्मणकाययोगेऽशीतिभङ्गाः सम्भवन्ति तथापि तस्याविवक्षणात् सामान्यकाययोगाश्रयणाच सप्तविंशतिरूताः। उपयोगद्वारे 'सागरोवउत्त'त्ति आकारो-विशेषांशग्रहणशक्तिस्तेन सहेति साकारः, तद्विपक्षी निराकारः,