________________
श्रीभग० लघुवृत्तौ
शब्दाकुलं - बृहच्छब्दं यथा स्यादेवमालोचयति, अंगीतार्थान् श्रावयन्नित्यर्थः, 'बहुजन'त्ति बहवो जना आलोचना गुरवो यत्र तद् बहुजनं यथा स्यात् 'अव्वत्त'त्ति अव्यक्तः - अगीतार्थस्तस्मै गुरवे यदालोचनं तदप्यव्यक्तमिति उच्यते 'तस्पेवि 'त्ति यदपराधमा लोचयिष्यति शिष्यस्तमेव यो गुरुस्सेवते स तत्सेवी, नन्वेतावतो गुणा आलोचकस्य कथमन्त्रिष्यन्ते इति, उच्यते, जातिसम्पन्नोकृत्यं न कुर्यात्, कृतं च सम्यगालोचयति, कुलसम्पन्नोऽङ्गीकृतप्रायश्चित्तस्य कर्त्ता स्यात्, विनयसम्पन्नो वंदनादिक्रियाप्रयोक्ता स्यात्, ज्ञानसम्पन्नः कृत्याकृत्य विभागज्ञः, दर्शनसम्पन्नः प्रायश्चित्ताच्छुद्धि श्रद्धत्ते, चारित्र सम्पन्नः प्रायश्चित्तमङ्गीकुर्यात्, क्षान्तो गुरुभिरुपालम्भितो न कुप्यति, दान्तः अमायी अगोपयन् अपराधमालोचयति, 'आयारवं'ति आलोचितापराधानामवधारणावान् विवहारवं 'ति आगमश्रुतादिपञ्चविधव्यवहारवान् 'उब्वीलए'त्ति अपव्रीडकः, लज्जया अतिचारान् गोपायन्तं विलजी कृत्यं सम्यगालोचनाकारयिता 'पकुञ्चर'ति आलोचितेष्वपराधेषु प्रायश्चित्तदानतो विशुद्धिं कारयितुं समर्थः अपरिश्रावी (शिष्येणालोचितापराधानामन्यस्याकथयिता) 'निज्जावर 'ति निर्यापकः, असमर्थस्य प्रायश्चित्तस्य खण्डशः करणेन निर्वाहकः, 'अवायदसि'त्ति आलोचनाया अदाने पारलौकिकापायदर्शनशील इति ।। अथ सामाचारीमाह - 'दसविहा सामायारी'ति (मृ. ८०० ) ( *१०६ ) प्रतीता चेयं, नवरं आपृच्छा कार्ये प्रश्नः, प्रतिपृच्छा तु प्रानिषिद्धे कार्य एव, तथा छन्दना प्रारगृहीतेन भक्तादिना, निमन्त्रणं त्वगृहीतेन, उपसम्पच्च ज्ञानाद्यर्थमाचार्यान्तराश्रयणमिति । 'आलोयणारि हे 'ति आलोचनार्हं १ प्रतिक्रमणं - मिथ्यादुष्कृतं २ तदुभयं - आलोचनामिथ्यादुष्कृते ३ विवेक:- अशुद्धभक्तादित्यागः ४ व्युत्सर्गः ५ तपो निर्विकृतिकादि ६ छेदः - प्रव्रज्यापर्यायस्वीकरणं ७ मूलं - महाव्रतारोपणं ८ अनवस्थाप्यं - कृततपसो व्रतारोपणं ९ पाराञ्चिकं - लिङ्गादिभेदम् १० । 'चियत्तोवग़रण' ति ( मू. ८०२ )
२५ श०
७ उद्देशः
२८२ ॥