________________
श्रीभग लघुवृत्ती
सियाणं वा, इह भावप्रत्ययलोपात् कषायकुशीलत्वमिति. दृश्यं, एवं पूर्वसूत्रेष्वपि, तत्रोपशमनिग्रन्थः श्रेणीतः प्रच्यवमानः सकषायः ।।
२५ श. | स्यात् , श्रेणीमस्तके तु मृतोऽसौ देवत्वेनोत्पन्नोऽसंयतः स्यात् , नो संयतासंयतो, देवत्वे तदभावाद्, यद्यपि च श्रेणीपतितोऽसौ |
६उद्देश | संयतासंयतोऽपि स्यात् तथापि नासौ देशविरत इहोक्तः, अनन्तरतया देशविरत्यभावादिति । संज्ञाद्वारे (सू. ७७५) इह संज्ञा आहारादिः तत्रोपयुक्तः, कथञ्चिदाहाराद्यभिष्वङ्गवान्, नोसंज्ञोपयुक्तस्तु आहाराद्युपभोगेऽपि तत्रानभिष्वक्तः, तत्र पुलाकनिर्ग्रन्थस्नातका नोसंज्ञोपयुक्ता भवन्त्याहारादिष्वनभिष्वङ्गा एव, ननु निर्ग्रन्थस्नातकावेवं युक्तौ वीतरागत्वात् , न तु पुलाकः, सरागत्वात् , नैवं, नहि सरागत्वे निरभिष्वङ्गता सर्वथा नास्तीति वक्तुं शक्यते, बकुशादीनां सरागत्वेऽपि निःसङ्गताया अपि प्रतिपादितत्वात् , चूर्णिकारस्त्वाह-'नोसन्ना नाणसण्ण'त्ति, तत्र च पुलाकनिग्रन्थस्नातका नोसंज्ञोपयुक्ता-ज्ञानप्रधानोपयोगवन्तो, न पुनराहारादिसंज्ञोपयुक्ताः, बकुशादयस्तूभयथापि तथाविधसंयमस्थानस्वभावादिति । आहारकद्वारे-'आहारए होज'त्ति (सू . ७७६). पुलाकादिनिर्ग्रन्थानां विग्रहत्यादीनामनाहारकत्वकारणानामभावादाहारकत्वमेव, 'सिणायए'त्ति स्नातकः, केवलिसमुद्घाते तृतीयचतुर्थ| पञ्चमसमयेष्वयोग्यवस्थायां चानाहारकः स्यात् , ततोऽन्यत्र पुनराहारकः । भवद्वारे-'पुलाए णं'ति (सू.७७७) पुलाको जघन्यत एकस्मिन् भवग्रहणे भूत्वा कपायकुशीलादिकसंयतत्वान्तरमेकशोऽनेकशो वा तत्रैव भवे भवान्तरे वाऽवाप्य सिध्यति, उत्कृष्टतस्तु देवादिभवान्तरितान् श्रीन भवान् पुलाकत्वमवाप्य सिध्यति, 'बउसे'त्यादि, इह कश्चिदेकत्र भवे बकुशत्वमवाप्य कषायकुशीलत्वा| देव सिध्यति, कश्चित्वेकत्रैव बकुशचमवाप्य भवान्तरेषु तदनवाप्यैव सिध्यति, अत उच्यते 'जहण्णणं एक्कं भवग्गहणं'ति, |'उकोसेणं अट्ठति किलाष्टौ भवग्रहणान्युत्कृष्टतया चरणमात्रमवाप्यते, तत्र कश्चित्वान्यष्टौ बकुशतया पर्यन्तिमभवे सकषायत्वा