________________
श्रीभग० लघुवृत्तौ
अथ षष्ठ आरभ्यते, तत्र तिस्रो द्वारगाथा उच्यंते- 'पण्णवण १ वेय २ रागे ३ कप्प ४ चरित्त ५ पडिसेवणा ६ नाणे ७ । तित्थे ८ लिंग ९ सरीरे १० खित्ते ११ काल १२ गति १३ संजम १४ निगा से १५ ॥१॥ (*९५) जोगु १६ वओग १७ कसाए १८ लेसा १९ परिमाण २० बंध २१ वेदे य २२ । कम्मोदीरण २३ उवसंपजहण २४ सण्णा य २५ आहारे २६ |२| (९६) भव २७ आगरि से २८ कालं २९ तरे ३० समुग्धाय ३१ खेत्त ३२ फुसणा ३३ य । भावे ३४ परिमा३५ खलु अप्पाबहुये ३६ नियंठाणं ॥ ३॥ (९७) नियंठ' त्ति निर्गताः सबाह्याभ्यन्तरात् ग्रन्थादिति निर्ग्रन्थाः, तत्र 'पुलाए'त्ति पुलाको - निःसारो धान्यकणस्तद्वत् पुलाकः, संयमसारापेक्षया, स च संयमवानपि मनाक् तमसारं कुर्वन् पुलाक इत्युच्यते १ 'बउसे 'ति बकुशं - शबलं, ततश्च बकुशसंयमयोगाद्धकुशः २ 'कुसीले 'ति कुत्सितं शीलं - चरणमस्येति कुशीलः 'नियंठे 'ति निर्गतो ग्रन्थात मोहनीय कर्मादिति निर्ग्रन्थः ४, 'सिणाए 'त्ति स्नात इव स्नातो घातिकर्ममलक्षालनात्, तत्र पुलाको द्विधा - लब्धिप्रति सेवाभेदात्, तत्र लब्धिपुलाको लब्धिविशेषवान्, यदाह-संघाइयाण कजे चुण्णिजा चक्कवडिसिनपि । तीए लद्धीऍ जुओ लद्धिपुलाओ मुणेयच्वो || १ ||” प्रतिसेवा पुलाकमाह- 'नाणपुलाए 'ति ज्ञानविराधको ज्ञानपुलाकः, एवं दर्शनपुलाकादीनाह - 'खलियाइदूसणेहिं नाणं संकाइएहिं सम्मत्तं । मूलत्तरगुणपडिसेवणाऍ चरणं विराह || १ || लिंगपुलाओ अन्नं निकारणओ करेइ जो लिंगं । मणसा अकंप्पियाणं निसेवओ होअहासुमो ||२||" बकुशो द्विधा - उपकरणशरीरभेदात्, तत्र वस्त्राद्युपकरणविभूषानुवर्त्तनशील उपकरणवकुशः, वपुर्विभूषानुवर्त्ती शरीरवकुशः, स चायं पञ्चधा, 'आभोगब उस त्ति आभोगः साधूनां वपुरुषकृत्यादिविभूषाकरणं अपकृत्यमिति ज्ञानं तत्प्रधानो बकुश आभोगवकुशः, इहाप्युक्तम्- आभोगे जाणंतो करेइ दोसं अजाणमण भोगे ।
मूलुत्त रेहिं
WiWOOL30
२५ श० ६ उद्देशः