________________
श्रीभग० लघुवृत्तौ
असत्यामृषा च अभाषा मृषा सत्यामृषा वा चरणं व्रतादि करणं-विशुद्ध्यादि यात्रा - संयमयात्रा मात्रा - तदर्थं आहारप्रमाणं वृत्ति:विविधैरभिग्रहविशेषैर्वर्त्तनं, आचारचं गोचरश्चेति द्वन्द्वः, एवमंगपरूवणा भाणियव्वा, 'जहां नंदीए'ति एवं प्रागुक्तसूत्रेणाचाराद्यङ्गप्ररूपणा भणितव्या यथा नन्द्यां सा चेयमङ्गप्ररूपणा नन्द्युक्ता कियद्दूरं वाच्या इत्याह- 'सुत्तत्थो' गाहा (९४) सूत्रार्थमात्रप्रतिपादनपरः सूत्रार्थः अनुयोगः, खलुशब्द एवार्थो, गुरुणा सूत्रार्थमात्राभिधानलक्षण एव प्रथमोऽनुयोगः कार्यो, मा भूत् प्राथमिक शिष्याणां मतिमोह इति, द्वितीयोऽनुयोगः सूत्रस्पर्शकनिर्युक्तिमिश्रः कार्यः, तृतीयस्त्वनुयोगो निरवशेषो, निरवशेषस्य प्रसक्तानुप्रसक्तस्यार्थकथनात्, एष विधिः स्यात् सूत्रस्यार्थेनानुरूपतया योजनलक्षणानुयोगे इति गाथार्थः । अथायं तृतीय उद्देशोऽतिसूक्ष्मार्थत्वादनुपयोगित्वाच्च अव्याख्यातोऽपि न वित्रियते, विशेपार्थिना तु बृहद्वृत्तिर्विलोक्या ।। २५ शते तृतीयः ॥ चतुर्थेऽपीदमादिसूत्रम्- 'करण' मित्यादि (सू. ७३४) 'कइजुम्म' ति संज्ञाशब्दत्वाद्राशिः नेरइयाणं भंते! कइ जुम्मेत्यादौ 'अट्ठो तहेव' ति स एवार्थः, जे गं नेरइया चउक्कएणं अवहारेणं अवहीरमाणा २ चउपजवसिया सिया ते णं नेरइया कडजुम्मेत्यादि । स्वरूपश्चतुर्थ उद्देशकोऽप्यतिसूक्ष्मार्थत्वादनुपयोगित्वाच्च न वित्रियते, विशेषार्थिना तु वृत्तिर्विलोक्या ।। २५ शते चतुर्थः ॥ पञ्चमस्यादिसूत्रमिदम्- 'कइविहे 'त्ति 'पज्जव'त्ति (सू. ७४६ ) पर्यवा गुणा धर्मा विशेषा इति पर्यायाः, 'जीवपज्जवा य'त्ति जीवपर्यवाः, एवं अजीवपर्यवा अपि, 'पज्जवपयं निरवसेसं भाणियत्र्वं जहा पण्णवणाए'त्ति पर्यवपदं च-विशेषपदं प्रज्ञापनायां पञ्चमं तच्चेदम्- जीवपञ्जवा णं भंते! किं संखेजा असंखेजा अनंता ?, गो० ! नो संखेजा नो असंखेजा अनंते' त्यादि ॥ २५ शते पञ्चमः ॥
OLJOCJOG/OCJOG=((:=6JOGJ
१२५ श० ३-४-५
उद्देशः
॥२७१ ॥