________________
श्रीभग लघुवृत्ती
३-४
IMMITHA HAMALAIMIMinimumarimmunisamma mamimilm Mainamama
'फासिंदियत्ताए जहा ओरालिय'त्ति, अयमर्थः-स्पर्शनेन्द्रियतया द्रव्याणि गृह्णाति यथौदारिकवपुःस्थितास्थितानि षड्दिगा| गतप्रभृतीनि 'मणजोगत्ताए'त्ति 'नियम छदिसं'ति मनोयोगतया तथा द्रव्याणि गृह्णाति, यथा कार्मणं स्थितान्येव गृह्णाति, | केवलं तत्र व्याघातेनेत्युक्तं इह तु नियमात् षड्दिशीत्येवं वाच्यं, नाडीमध्य एव मनोद्रव्यग्रहणभावात् , अत्रसांनां हि तन्नास्ति, एवं-मनोद्रव्यवद्वागद्रव्याणि गृह्णातीत्यर्थः,'कायजोगत्ताए'त्ति काययोगद्रव्याणि स्थितास्थितानि षड्दिगागतप्रभृतीनि 'काइ'त्ति शरीराणि ५ इन्द्रियाणि ५ योगास्त्रयः आनप्राणं च, सर्वाणि १४ पदानि ॥ २५ शते द्वितीयः॥
तृतीये पुद्गलसंस्थानान्याह, संस्थानानि स्कन्धाकाराः 'अणित्यंत्थि'त्ति (मू . ७२४) इत्थं-अनेन प्रकारेण परिमण्डलादिना | तिष्ठतीति इत्थंस्थं न इत्थंस्थमनित्थस्थं परिमण्डलादिमिन्नं 'दव्वत्थयाए'त्ति द्रव्यरूपमर्थमाश्रित्य 'पएस'त्ति प्रदेशरूपमर्थमाश्रित्य 'दव्वट्ठपएस'त्ति तदुभयमाश्रित्य 'सव्वत्थोवा परिमंडलत्ति इह यानि संस्थानानि यत्संस्थानापेक्षया बहुतरप्रदेशावगाहानि तानि तदपेक्षया स्तोकानि तथाविधस्वभावत्वात् , तत्र च परिमण्डलं संस्थानं जघन्यतोऽपि विंशतिप्रदेशावगाहाद्वहुतरप्रदेशावगाहि, वृत्तव्यस्रचतुरस्रायतानि तु क्रमाजघन्यतः पञ्चचतुस्विद्विप्रदेशावगाहित्वात् अल्पप्रदेशावगाहीनि, अतः सर्वेभ्यो बहुतरप्रदेशावगाहित्वात् परिमण्डलस्य परिमण्डलसंस्थानानि सर्वेभ्यः सकाशात् स्तोकानि इत्यादि ।'से किंतं आयारो"त्ति(सू.७३२) प्राकृतत्वात् कोऽसावाचारः ?,'आयारगोयर'इत्यनेनेदं सूचितम् 'आयारगोयरविणयवेणइयसिक्वाभासाचरणकरणजायमायावितीओ आपविजंति'त्ति तत्राचारो-ज्ञानाद्यनेकभेदभिन्नः गोचरो-भिक्षाग्रहणविधिः विनयो-ज्ञानादिविनयः वैनयिक-विनयफलं कर्म कार्यादि शिक्षाग्रहणासेवनाभेदभिन्ना अथवा वैनयिको विनेयो वा शिष्यस्तस्य शिक्षावैनयिकशिक्षा विनयशिक्षा वा भाषा सत्या