SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ २४ श. श्रीभग लघुवृत्ती २३-२४ उद्देश: युष्कं स्यात् तथापि ज्योतिषां ततो हीनतरं नास्ति, स्वायुस्तुल्यायुर्बन्धकाथोत्कर्षतोऽसङ्ख्यातवर्षायुष इतीह जघन्यस्थितिकास्ते |पल्योपमाष्टभागायुषः स्युः, ते च विमलवाहनादिकुलकरकालात् पूर्वतरकालभुवो हस्त्यादयः, औधिकज्योतिष्का अप्येवंविधा एव | तेषामुत्पत्तिस्थानं स्युः, 'जहण्णेणं अट्ठभागपलिओवमट्टिइएसुत्ति इत्यायुक्तं, ओगाहणा जहण्णेणं धणुपुहुत्तं' यदुक्तं तत्पल्योपमाष्टभागमानायुषो विमलवाहनादिपूर्वतरकालभाविनो हस्त्यादिव्यतिरिक्तक्षुद्रकायचतुष्पदानपेक्ष्य ज्ञेयं, 'उकोसेणं साइरेगाइं अट्ठारस धणुसयाईति एतच्च विमलवाहनादिपूर्वतरकालभाविहस्त्यादीनपेक्ष्योक्तं, यतो विमलवाहनो नवधनुःशतमानावगाहनः तत्कालहस्त्यादयश्च तद्विगुणाः, तत्पूर्वतरकालभाविनश्च ते सातिरेकतत्प्रमाणाः स्युः, 'जहण्णकालठिइयस्स एस चेव'त्ति पञ्चषष्ठगमयोरत्रैवान्तर्भावात् , यतः पल्योपमाष्टभागमानायुषो मिथुनकतिरश्चः पञ्चमगमे षष्ठगमे च पल्योपमाष्टभागमानमेवायुः स्यात् , प्राग्भावितं चैतदिति, सप्तमादिगमेषत्कृष्टैव त्रिपल्योपमलक्षणा तिरश्चः स्थितिः, ज्योतिष्कस्य तु सप्तमे | द्विधा प्रतीतेव, अष्टमे पल्योपमाष्टभागरूपा नवमे सातिरेकपल्योपमरूपा, संवेधश्च तदनुसारेण कार्यः, 'एए सत्त गमगति प्रथ| मास्त्रयः मध्यमत्रयस्थाने एकः पश्चिमास्तु त्रय एवेति सप्त, असङ्ख्यातवर्षायुष्कनराधिकारे 'ओगाहणा साइरेगाइं धणुसयाईति विमलवाहनकुलकरपूर्वकालीननरापेक्षया, तिण्णि गाउयाईति एतच्चैकान्तसुषमादिभाविनरापेक्षया 'मज्झिमगमए'त्ति | पूर्वोक्तनीतेस्त्रिभिरप्येक एवायमिति ॥ २४ शते २३ उद्देशः॥ __ 'जहण्णेणं पलिओवमठिइएसुत्ति (सू .७१५) सौधर्मे जघन्येनान्यस्यायुषोऽसत्त्वात् 'उक्कोसेणं तिपलिओवमठिएसुत्ति यद्यपि सौधर्मे बहुतरायुष्कमस्ति तथाप्युत्कर्षतस्विपल्योपमायुष्का एव तिर्यञ्चः स्युः, तदनतिरिक्तं च देवायुर्न बध्नन्ति, 'दो पलि ॥२६७॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy