SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ श्रीभग० लघुवृत्तौ कत्वेनानुत्पत्तेरिति, एवं तृतीयोऽपि वाच्यः ॥ अपूकायादिभिश्च तदुत्पादमतिदेशेनाह - 'एवं आउकाइयाणवित्ति देवाधिकारे 'जाव ईसाणदेव' त्ति यथाऽसुरा नरेषु पञ्चेन्द्रियतिर्यग्योनिको द्देश वक्तव्यतातिदेशेनोत्पादिता एवं नागकुमारादय ईशानान्ता उत्पादनीयाः सहस्वक्तव्यत्वात्, यथां च तत्र जघन्य स्थितेः परिणामस्य च नानात्वमुक्तं तथैतेष्वपि, अत आह— 'एयाणि चेत्र णाणत्ताणि'त्ति सनत्कुमारादिवक्तव्यतायां विशेषोऽस्ति तं भेदेन दर्शयति- 'सणकुमारे' त्यादि, 'एसा उक्कोसठिई भाणि - यंत्रवत्ति यदा ओघि केभ्यश्च देवेभ्यं औधिकादिनरेषूत्यते तदोत्कृष्टस्थितिसंवेधविवक्षायां नरभवान्तरितैश्चतुर्भिस्सनत्कुमारदेवभवैरष्टाविंशत्यादिसागरोपममाना स्यात्, संप्तादिसागरोपममानत्वात् तस्या इति, यदा पुनर्जघन्यस्थितिकदेवेभ्य औधिकादिनरेषूत्पद्यते तदा जघन्यस्थितिः स्यात् सा च चतुर्गुणिता सनत्कुमारादीनामष्टादिसागराणि, द्वयादिसागरोपममानत्वात् तस्या इति, 'आ जयदेवे णं'ति, 'उक्को सेणं छन्भव'त्ति त्रीणि देवसंबंधीनि त्रीणि नरसत्कानि इत्येवं षट्, 'अट्ठारससागरोवमाई'ति आनते। जवन्य स्थिते रेवंभूतत्वात्, 'उक्को सेणं सत्तावण्णं'ति आनते उत्कृष्टस्थितेः १९ सागरोपमप्रमाणाया भवत्रयगुणनेन ५७ सागराणि स्युरिति । ग्रैवेयकाधिकारे 'एगे भवधाणिजे 'त्ति कल्पातीतदेवानामुत्तरवैक्रियं नास्तीत्यर्थः, 'नो चेव णं वेउब्विए' त्ति ग्रैवेयकदेवानां ५ समुद्घाताः लब्ध्यपेक्षया सम्भवन्ति, केवलं वैक्रियतैजसाभ्यां न ते समुद्धातं कृतवन्तः कुर्वन्ति करिष्यन्ति वा प्रयोजनाभावादित्यर्थः, 'जहणणेणं बावीसं'ति प्रथमग्रैवेयके जघन्येन तेषां २२ सागराणि 'उक्को सेणं एक्कतीसं ति ९ ग्रैवेयके उत्कर्षतः ३१ तानि सागराणि, 'उक्कोसेणं तेणउई'ति इहोत्कृष्टतः ६ भवाः, त्रिषु देवभवेषूत्कर्षतो भवं २ प्रति सागराणामेकत्रिंशत् तत् त्रिगुणने त्रिनवतिस्तेषां स्यात्, त्रिभिरुत्कृष्टैर्नरजन्मभिस्तिस्रः पूर्वकोटयः स्युरिति । सर्वार्थसिद्धदेवाधिकारे आद्या एव BOLJOJOG:ÓCI(GJÓLL@GSÚCLOG:JOLDO |२४ श० २१ उद्दे. ॥२६६ ॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy