________________
२४.०.
श्रीभग
वनस्पतिकायिकानां, द्विधाऽपि मध्यमेषु, जघन्यस्थितिगमेषु त्रिषु यथा पृथ्वीकायेषु उत्पद्यमानानामुक्ता तथैव वाच्या, अङ्गुलालघुवृत्तौ ।
सङ्ख्यातभागमात्रेत्यर्थः, 'संवेहो ठिई य जाणियव्य'त्ति तत्र स्थितिरुत्कर्षतः १० वर्षसहस्राणि, जघन्या तु प्रतीतैव, एतदनुसारेण संवेधोऽपि ज्ञेयः, तमेव चैकत्र गमे दर्शयति-तइए'त्ति, 'उक्को० अट्ठावीसुत्तरवाससयसहस्संति इह गमे उत्कर्षतः ८ भवाः तेषु ४ पृथ्व्या ४ वनस्पतेः, तत्र चतुर्यु पृथ्वीभवेषु उत्कृष्टेषु वर्ष ८८००० तथा वनस्पतेः १० वर्षसहस्रायुष्कत्वाचतुर्षु भवेषु ४००००, उभयमीलने यथोक्तमानमिति ॥ अथ द्वीन्द्रियेभ्यस्तमुत्पादयन्नाह-'बारस जोयणाईति (सू. ७०२) । यदुक्तं तत् शंखमाश्रित्य, यदाह-'संखो पुण बारस जोयणाईति 'सम्मट्ठिी वत्ति एतच्चोच्यते सास्वादनसम्यक्त्वापेक्षया, इयं च वक्तव्यतौधिकद्वीन्द्रियस्यौधिकपृथ्वीकायिकेषु, एवमेतस्य जघन्यस्थितिष्वपि, तस्यैवोत्कृष्टस्थितिषूत्पत्तौ संवेधे विशेषोऽत एवाह'नवर'मित्यादि, अट्ठ भव'त्ति एकपक्षस्योत्कृष्टस्थितिकत्वात् 'अडयालीसाए'त्ति चतुर्यु द्वीन्द्रियभवेषु १२ वर्षमानेषु ४८ वर्षाणि स्युः, तैरधिकानि ८८ वर्षसहस्राणि, द्वितीयस्यापि गमत्रयस्यैषैव वक्तव्यता, विशेषमाह-'नवरंति इह सप्त नानात्वानि, वपुरवगाहना, यथा पृथ्वीकायानामङ्गुलासङ्ख्येयभागमात्रमित्यर्थः, प्राग्गमत्रये तु १२ योजनमानाऽपि उक्ता, तथा 'नो सम्मद्दिट्ठी' जधन्यस्थितितया सास्वादनसम्यग्दृष्टीनामनुत्पादात् , प्राक्तनगमे तु सम्यग्दृष्टिरप्युक्तः, तेषु मध्यमोत्कृष्टस्थितिभावात् २, तथाढे ज्ञाने प्राक्तने गमे ज्ञाने अज्ञाने अप्युक्ते ३, योगद्वारे कस्यापि जघन्यस्थितिकत्वेन पर्याप्तकत्वान्न वाग्योगः प्राक्-चासावप्युक्तः ४, स्थितिरन्तर्मुहूर्तमेव प्राक् च १२ वर्षाणि ५, अत्राध्यवसानान्यप्रशस्तानि प्रागुभयरूपाणि ६, सप्तमं नानात्वं अनुबन्धः ७, संवेधस्तु द्वितीयत्रयस्याद्ययोर्गमयोरुत्कर्षतो भवादेशेनासख्येयभवलक्षणः कालादेशेन सङ्ख्येयकालः, तृतीये तु विशेषमाह-'तइ