________________
श्रीभग० लघुवृत्तौ
हस्रद्वाविंशतेश्च प्रत्येकं चतुर्भवग्रहणगुणितत्वे पृथ्वीकायस्य उत्कृष्टं यथोक्तं कालमानं स्यात् ८८०००, एवं सप्तमादिगमसंवेधा अभ्युद्याः, नवरं नवमगमे जघन्येन २९ वर्षसहस्राणि अपकायिक पृथ्वीकायिकोत्कृष्टस्थित्योरपूकायपृथ्वीकाययोरेकभवापेक्षया जघन्य स्थितेर्मीलनादिति । अथ तेजस्कायिकेभ्यः पृथ्वीकायिकमुत्पादयन्नाह - 'तिष्णि लेसाओ' ति अपकायिकेष्ठ देवोत्पत्तेस्तेजोलेश्या सद्भावात् चतस्रस्ता उक्ताः, इह तु तदभावातिस्र एव 'टिई जाणियंत्रच 'त्ति तत्र तेजस्सु जघन्या स्थितिरन्तर्मुहूर्त्तमितरा तु त्रीण्यहोरात्राणि, 'तइयगमए'ति तृतीयगमे औधिकस्तेजस्कायिक उत्कृष्टस्थितिषु पृथिवीकायिकेषु उत्पद्यत इत्यत्रैकस्य पक्षस्योत्कृष्टस्थितिकत्वमतोऽष्टौ भवाः, तत्र चतुर्षु पृथिवीकायिकोत्कृष्टभवेषु द्वाविंशतेर्वर्षसहस्राणां चतुर्गुणनेऽष्टाशीतिस्तानि स्युः, चतुर्षु तैजस्कायिकभवेषु उत्कर्षतः प्रत्येकमहोरात्रत्रिके चतुर्भिर्गुणिते १२ अहोरात्राणीति, 'एवं संवेहो उवउज्जिऊण भाणियब्वो'त्ति स चैवं - षष्ठादिनवान्तेषु गमेषु ८ भवाः तेषु कालमानं यथोक्तं ज्ञेयं, शेषगमेषु तूत्कर्षतः असङ्ख्यातभवाः कालोऽप्यसङ्ख्येय एवेति । अथ वायुकायिकेभ्यः पृथ्वी कायमुत्पादयन्नाह - 'संवेहो वाससहस्सेहिं कायव्वो'त्ति वायूनामुत्कर्षतः वर्षसहस्रत्रयस्थितिकत्वात् 'उक्को० ए० वाससयसहस्स'ति अत्र ८ भवाः, तेषु चतुर्षु द्वाविंशतेश्वतुर्गुणने ८८००० पुनरन्येषु चतुर्षु वायुभवेषु वर्षसह स्रत्रयस्य चतुर्गुणितेषु जाताः १२०००, एवं द्वयोर्मीलने वर्षलक्षमिति, एवं संवेहो उवजुजिऊण भाणियच्वो त्ति स च यत्रोत्कृष्ट स्थितिसम्भवस्तत्रोत्कर्षतः ८ भवाः इतरत्र त्वसङ्ख्यातभवाः कालतोऽसङ्ख्यात एव वाच्यः । अथ वनस्पतिभ्यस्तमुत्पादयन्नाह, अथ वनस्पतिकायानामप्रकायवत् ९ गमा भणितव्याः, योऽत्र विशेषस्तमाह- 'नाणासंठिए' त्यादि, अप्कायस्य स्तिबुकाकारावगाहना एषां तु नानासंस्थानस्थितता, तथा 'पढमएसु' त्ति प्रथमेषु औधिकेषु गमेषु पाश्चात्येषु चोत्कृष्टस्थितिगमेष्ववगाहना
२४ श०
३ उद्देशः
||२६०॥