________________
श्रीभगः लघुवृत्तौ
वर्षायुरसावुत्पाद्यते 'जइ संखेज्ज' त्ति, 'उक्को० सातिरेगसागरोवमट्टिइएस' त्ति यदुक्तं तद् बलिनिकायमाश्रित्येति, 'तिसुवि | गमएस इमं नाणत्तं' ति जघन्यकालस्थितिकसम्बन्धिष्वौधिकादिषु 'चत्तारि लेसाउ'त्ति रत्नप्रभापृथ्वीगामिनां जघन्यस्थितिकानां तिस्रस्तत्रोक्ताः एषु पुनस्ताश्चतस्रः, असुरेषु तेजोलेश्यावानप्युत्पद्यते, तथा रत्नप्रभा पृथ्वीगामिनां जघन्यस्थितिकानामंध्यवसायस्थानान्यप्रशस्तान्येवोक्तानीह तु प्रशस्तान्यपि, दीर्घस्थितिकत्वे हि द्विविधान्यपि सम्भवन्ति, न त्वितरेषु, कालस्याल्पत्वान्, 'संवेहो साइरेगेण सागरोवमेण 'त्ति रत्नप्रभागमेषु सागरेण संवेध उक्तः, असुरकुमारगमेषु तु सातिरेकसागरेणासौ कार्यः, बलिपक्षापेक्षया तस्यैव भावादिति, अथ नरेभ्योऽसुरानुत्पादयन्नाह - 'जइ मणुस्से हिंतो' इत्यादि 'उक्को० तिपलिओ मट्ठिइएसुत्ति देवकुर्वादिनरा हि उत्कर्षतः स्वायुस्समस्यैव देवायुषो बन्धकाः अतः 'तिपलिओ मट्टिइएस' इत्युक्तं, नवरं 'सरीरोगाहण'ति तत्र प्रथम औधिकः औधिकेषु, द्वितीयस्तु औधिको जघन्यस्थितिषु तत्रौधिकोऽसङ्ख्यातवर्षायुस्संज्ञी नरो जघन्यतः सातिरेक ५०० धनुःप्रमाणः स्यात्, तथा सप्तमकुलकरप्राकालभावी मिथुनकनरः उत्कर्षतस्त्रिगन्यूतमानो, यथा देवकुर्वादिमिथुनकनरः, स च प्रथमगमे, द्वितीये च जघन्यायुरुत्कृष्टायुरपीति द्विधाऽपि सम्भवति, तृतीये तु त्रिगव्यूतावगाहन एव, यस्मादसावेवोत्कर्षस्थितिषु पल्योपमत्रयायुष्केषूत्पद्यते, उत्कर्षतः स्वायुः समायुर्बन्धकत्वात्तस्येति, अथ सङ्ख्यातवर्षायुः संज्ञिनरमाश्रित्याह'जह संखेज्जे 'त्यादि प्राग्वत्सर्वं ज्ञेयमिति ॥ २४ शते द्वितीयः ॥
उक्को० देसूणदुपलिओवमट्ठिएसुत्ति (सू. ६९९ ) यदुक्तं तदौदीच्य नागकुमारापेक्षया, यतस्तत्र द्वे देशोने पल्योपमे उत्कर्षत आयुः स्याद् आह च-' दाहिण दिवडूपलियं उत्तरओ हुति दुन्नि देसुणा' इति, उत्कृष्टसंवेधपदे 'देसूणाई पंच पल
ONE CHHOTIN CHHOOD AND DRONE HOON COOM MARDOHAM
२४ ०
२ उद्देशः