________________
श्रीभग० लघुवृत्तौ
ओवमाई' ति पल्योपमत्रयं असङ्ख्यातवर्षायुस्तिर्यक्सम्बन्धि द्वे च देशोने ते नागकुमारसत्के इति यथोक्तं तत् स्यात्, द्वितीयगमे 'नागकुमारठि संवेहं च जाणेज'त्ति तत्र जघन्या नागकुमारस्थितिर्दशवर्षसहस्राणि, संवेधस्तु कालतो जघन्यसाधिकपूर्वकोटीदशवर्षसहस्राधिकः, उत्कर्षः पुनः पल्योपमत्रयं तैरेवाधिकमिति, तृतीयगमे 'उक्कोसका लट्ठिएस' ति देशोनद्विपल्योप्रमायुष्केष्वित्यर्थः तथा 'टिई जहणणेणं' ति यदुक्तं तदवसर्पिण्यां सुषमाख्यद्वितीयारकस्य कियत्यपि भागेऽतीतेऽसङ्ख्यातव - र्षायुषस्तिरश्वोऽधिकृत्योक्तं, एषामेवैतत्प्रमाणायुष्कत्वात्, एषामेव च स्वायुः समदेवायुर्बन्धकत्वेनोत्कृष्टस्थितिषु नागकुमारेषूत्पादात्, 'तिष्णि पलिओवमाई' ति एतच्च देवकुर्वाद्यसङ्ख्या तजीवितिरश्वोऽधिकृत्योक्तं, ते च उत्कृष्टतः त्रिपल्योपमायुषोऽपि तत्र मध्यमस्थित्या देशोनद्विल्योपममानमायुर्वन्ति, यतस्ते स्वायुपस्समं हीनतरं वा तद्वनंति, न तु महत्तरमिति, अथ सङ्ख्यातायुःसंज्ञिपञ्चेन्द्रियतिर्यचमाश्रित्याह- 'जइ संखेज' त्ति प्राग्वत् ज्ञेयमिति ।। २४ शते तृतीयः ॥
(सू. ७००) एवमन्येऽष्टावित्येकादशः । अथ १२ पृथ्वीकायिकोद्देशक उच्यते- 'जहा वक्कंतीए 'त्ति (सू. ७०१) यदुक्तं तदेवं दृश्यं किं एगिंदियतिरिक्खजोणिए हिंतो जाव पंचिंदियतिरिक्खजोणिएहिंतो उववअंति ?, गोयमा ! एगिंदियतिरिक्खजोणिएहिंतोवि उबवती' त्यादि, तृतीयगमे 'जहणणेणं एको वे'त्यादि, प्राक्तनगमयोरुत्पित्सु बहुत्वेनासङ्ख्याता एवोत्पद्यन्त एवमुक्तं, इह तु उत्कृष्टस्थितय एकादयोऽसङ्ख्यातान्ताश्चोत्पद्यन्ते, उत्कृष्टस्थिति के पूत्पित्सूनामल्पत्वेनैकादीनामपि उत्पादसम्भवात्, 'उक्को० अट्ठ भवरगहणाई' ति इहेदमवगन्तव्यं यत्र संवेधे पक्षद्वयस्य मध्ये एकत्रापि पक्षे उत्कृष्टा स्थितिः स्यात् तत्रोत्कर्षतोऽष्टौ भवग्रहणानि, तदन्यत्र त्वसङ्ख्यातानि ततश्वेहोत्पत्तिविषयभूतजी वेषूत्कृष्टा स्थितिरित्युत्कर्षतोऽष्टौ भवग्रहणानि, एवमग्रेऽपि वाच्यं, 'छावत्तरं
CDCDOCJOL SOL JOCOL DOCTOL BOLDOGD
२४. शु० २ उद्देशः
||॥२५९॥