SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ श्रीभग लघुवृत्ती धिकानि, तृतीयेऽप्येवमेव, नवरं सागरोपमस्थाने जघन्यतः सागरत्रयं सागरचतुष्टयस्थाने तूत्कर्षतः सागरोपमद्वादशकं वाच्यमिति, 'सो चेवे'त्यादि, चतुर्थादिगमत्रयं, तत्र च 'संवेहो उवजुजिऊण भाणियब्वोत्ति, स चैवम्-जघन्य स्थितिक औधिकेष्वित्यत्र | गमे संवेधः कालादेशेन जघन्यतः सागरोपमं वर्षपृथक्त्वाधिकं उत्कर्षतो द्वादश सागराणि वर्षपृथक्त्वचतुष्काधिकानि, जघन्य| स्थितिर्जघन्यस्थिति केन कालतः कायसंवेधः सागरोपमं वर्षपृथक्त्वाधिकं उत्कर्षतः ४ सागराणि वर्षपृथक्त्वचतुष्काधिकानि, एवं | षष्ठगमो ह्यः। 'सो चेवेत्यादि, सप्तमादिगमत्रयं, तत्र च 'इमं नाणत्त'मित्यादि वपुरवगाहना पूर्व हस्तपृथक्त्वं धनुःशतप|ञ्चकं चोक्ता इह तु शतपञ्चकमेव, एवमन्यदपि नानात्वमूह्यं 'मणुस्सठिती जाणियव्व'त्ति तिर्यस्थितिघन्याऽन्तर्मुहूर्त्तमुक्ता, | मनुष्यगमेषु तु मनुष्यस्थितिख़तव्या, सा जघन्या द्वितीयादिगामिनां वर्षपृथक्त्वं उत्कृष्टा तु पूर्वकोटीति, सप्तमपृथ्वीप्रथमगमे | | 'तेत्तीसं सागरोवमाई पुव्वकोडीअब्भहिआई' इहोत्कृष्टः कायसंवेध एतावन्तमेव कालं स्यात् सप्तमपृथ्वीनारकस्य, तत उदृत्तस्य | मनुष्येष्वनुत्पादेन मनुष्य १ नारकभवद्वयभावेनैवैतावत एव कालस्य भावादिति ॥ २४ शते प्रथमः॥ द्वितीय आरभ्यते-'उक्कोसेणं पलिओवमस्स असंखिजइभागट्ठिइएसु उववज्जेजा' (सू. ६९८) इह पल्योपमा| सङ्ख्येयभागग्रहणेन पूर्वकोटी ग्राह्या, यतः पर्याप्तासंज्ञिपञ्चेन्द्रियतिरश्चः सम्मूर्छिमस्योत्कर्षतः पूर्वकोटीप्रमाणमायुः स्यात् , स चोत्कर्षतः स्वायुष्कतुल्यमेव देवायुर्वध्नाति, नाधिकं, अत आह चूर्णिकार-:'उक्कोसेणं सतुल्लपुब्बकोडिआउयं निव्वत्तेइ, न य संमुच्छिमो पुव्वकोडिआउयत्ताओ परो अच्छति', अथ असङ्ख्यातवर्षायुःसंज्ञिपञ्चेन्द्रियतिर्यग्गमेषु 'उक्कोसेणं तिपलिओवमट्ठिइएसु. उववजेज'त्ति इदं देवकुर्वादिमिथुनकतिरश्चोऽधिकृत्योक्तं, ते हि पल्योपमायुष्कत्वेनासङ्ख्यातवर्षायुषः स्युस्ते च स्वा
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy