SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ श्रीभग लघुवृत्ती २४ श० १ उद्देशः उववजईत्ति, 'जहण्णेणं मासपुहुत्तंति, इदमुक्तं स्यात्-जन्मतो मासद्वयान्तर्वायुनरो नरकं न याति, दसवासहस्साईति जघन्यं नारकायुः,'मासपुहुत्तमभहियाई'ति इह मासपृथक्त्वं जघन्यं नरकयायिनरायुः 'चत्तारि सागरोवमाईति उत्कृष्ट रत्नप्रभानारकभवचतुष्कायुः 'चउहिं पुवकोडीहिंति इह चतस्रः पूर्वकोटयो नरकयायिनरभवचतुष्कोत्कृष्टायुस्सत्काः, इदमत्र ज्ञेयम्-मनुष्यो भृत्वा चतुर एव वारान् एकस्यां पृथव्यां नारकः स्यात, पुनश्च तिर्यगेव स्यात् , जघन्यस्थितिक औषिकेषु इत्यत्र चतुर्थे गमे 'इमाइ पंच नाणत्ताइंति वपुरवगाहने जघन्येतराभ्यामङ्गुलपुथकत्वं, प्रथमगमे तु सा जघन्यतोऽङ्गुलपृथक्त्वं उत्कर्षतः पञ्चधनुःशतानि १ तथेह त्रीणि ज्ञानानि त्रीण्यज्ञानानि भजनया, जघन्यस्थितिकस्यैषामेव भावात् , पूर्वं तु चत्वारि ज्ञानान्युक्तानीति २, तथेहाद्याः ५ समुद्घाताः, जघन्यस्थितिकस्यैषामेव सम्भवात् , प्राक् च षडुक्ताः, अजघन्यस्थितिकस्याहारकसमुद्घातस्यापि सम्भ| वात् ३, तथेह स्थितिरनुबन्धश्च जघन्यत उत्कृष्टतश्च मासपृथक्त्वं, प्राक् स्थित्यनुबन्धो जघन्यतो मासपृथक्त्वमुत्कर्षतस्तु पूर्वकोट्यभिहितेति, शेषगमास्तु स्वयमूह्याः। अथ शकराप्रभायां (सू .६९७) अनेनेदमुक्तं स्यान् , 'रयणिपुहुत्तं ति सरीरोगाहणा जहण्णेणं, | द्विहस्तप्रमाणेभ्यो हीनतरप्रमाणा द्वितीयस्यां नोत्पद्यन्ते, 'जहण्णेणं वासपुहत्तं ति वर्षद्वयायुभ्यो हीनतरायुषो द्वितीयायां नोत्पद्यन्ते, एवं एसा ओहिएसु तिसु गमएसुत्ति ओहिओ ओहिएसु १ ओहिओ जहण्णठिईएसु २ ओहिओ उकोसठिइएसु ३, एते औधिकास्त्रयो गमाः, एतेष्वेवानन्तरोक्ता मनुष्यलब्धिः परिमाण संहननप्राप्तिः, नानात्वं विदं यदुत नारकस्थिति काला| देशेन कायसंवेधं च जानीयाः, तत्र प्रथमगमे स्थित्यादिकं सूत्रसिद्धमेव, द्वितीये तु औधिको जघन्यस्थितिष्पित्यत्र नारकस्थिति| जघन्येतराभ्यां सागरोपमं, कालतस्तु संवेधो जघन्यतो नरसत्कवर्षपृथक्त्वाधिकं सागरोपममुत्कर्षतस्तु सागरोपम ४ पूर्वकोट्य २५७||
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy