SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ श्रीभग लघुवृत्ती १ उद्देशः |प्पभाए पंचविहसंघयणी'त्ति आद्ययोरेव पृथिव्योः सेर्वानोत्पद्यन्ते, एवं चतुर्थी ४ पञ्चमी ३ षष्ठी २ सप्तमीषु एकैकं संहननं हीयत इति । अथ सप्तमपृथिवीमाश्रित्याह-'पजत्ते'त्यादि, 'इत्थिवेया न उववजं तित्ति षष्ठयन्तास्वेव पृथ्वीषु स्त्रीणामु- त्पपत्तेः, 'जहण्णेणं तिणि भवग्गहणाईति मत्स्यस्य सप्तमपृथ्वीनारकत्वेनोत्पद्य पुनर्मत्स्येष्वेवोत्पत्तौ 'उको सत्तभव'त्ति मत्स्यो भूत्वा १ सप्तम्याङ्गतः २ पुनर्मत्स्यः ३ पुनरपि सप्तम्याङ्गतः ४ पुनरपि तथैव मत्स्यः ५ सप्तम्यां च ६ पुनर्मत्स्यः ७ इति । 'कालादेसेणं ति २२ सागराणि जघन्यस्थितिसप्तमपृथ्वीनारकभवसत्कानि अन्तर्मुहूर्त्तद्वयं च प्रथममत्स्यभवसत्कमिति, छावहिति वारत्रयं सप्तम्यां २२ सागरायुष्कतयोत्पत्तेः, पूर्वकोटयश्चतुषु नारकंभवान्तरितेषु मत्स्यभवेष्विति, अंत इदं ज्ञायते-सप्तम्यां जघन्यस्थितिषूत्कर्षतस्त्रीनेव वारानुत्पद्यत इति, कथमन्यथेक्कालपरिमाणं स्याद् , इह चोत्कृष्टः कालो विवक्षितः, तेन जघन्यस्थितिषु त्रीन् वारानुत्पादितः, एवं हि चतुर्थी पूर्वकोटिर्लभ्यते, उत्कृष्टस्थितिः पुनर्वारद्वयोत्पादने षट्षष्टिस्सागराणां स्यात् , पूर्वकोट्यः पुनस्तिस्र एवेति १ 'सो चेव जहण्ण'त्ति इत्यादिस्तु द्वितीयो गमः २ 'सोचेव उक्कोस'त्ति इति, तत्र च 'उक्कोसेणं पंच'त्ति मत्स्यभवाः ३ नारकभवौ २, अत एव उत्कृष्टस्थितिषु सप्तम्यां वारद्वयमेवोत्पत्तेः ५, 'सो चेव जहण्णकालद्विइओ'त्ति ४, तत्र च 'सच्चेव रयणप्पभपुढविजहण्णकालविइवत्तच्चय'त्ति सैव रत्नप्रभाचतुर्थगमवक्तव्यता वाच्या, नवरमयं विशेषः-प्रथमायां ६ संहननानि वेदाः ३ उक्ताः, इह तु सप्तमपृथ्वीचतुर्थगमे प्रथममेव संहननं स्त्रीवेदनिषेधश्च वाच्य इति, शेषा गमाः स्वयमूह्याः । अथ नराधिकारी 'उको संखेजा उववजंति' (सू. ६९६) गर्भजनराणां सदा सङ्ख्यातानामेवास्तित्वात् , नवरं 'चत्तारि नाणाई ति अवध्यादौ प्रतिपतिते सति केषांचिन्नरकेषत्पत्तेः, आह च चूर्णिकार:-'ओहिनाणमणपज्जवनाणआहारसरीराणि लभ्रूण परिसाडित्ता
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy