SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ श्रीभग० लघुवृत्तौ JOCJÓLF अथ चतुर्विंशतितममारभ्यते - तदुद्देशकद्वारसङ्ग्रहगाथेयम् - 'उववाय'त्ति (९०-९१) नारकादयः कुत उत्पद्यन्ते इत्युत्पादो वाच्यः १ 'परीमाणं' ति ये नारकादिषूत्पत्स्यन्ते तेषां स्वकाये उत्पद्यमानानां परिमाणं वाच्यं २ 'संघयणं'ति तेषामेव नारकादिषुत्पित्सूनां संहननं वाच्यं ३ 'उच्चत्तं त्ति नरकादिषु यायिनामवगाहनाप्रमाणं वाच्यं ४, एवं संस्थानाद्यपि ज्ञेयं ५, 'अणुबंध'त्ति विवक्षितपर्यायेणाव्यवच्छिन्नेनावस्थानं 'कायसंवेहो'त्ति विवक्षितकायात् कायान्तरे तुल्यकाये वा गत्वा पुनरपि यथासम्भवं तत्रैवागमनं । अथारव्धशतोद्देशकपरिज्ञानगाथामाह - 'जीवपदे' त्यादि (९२) इयं गाथा प्रागुक्तद्वारगाथाद्वयादादौ कचिद् दृश्यते, तत्र प्रथमोदेशको व्याख्यायते तत्र च कार्यसंवेधद्वारे 'से णं भंते! पजते असण्णी' त्यादि (सू. ६९३) 'भवादेसेणं'ति भवप्रकारेण 'दो भवग्गहणाई'ति एकत्रासंज्ञी १ द्वितीये नारकः २, ततो निर्गतः सन् अनन्तरतया संज्ञित्वमेव लभते, न पुनरसंज्ञित्वमिति, 'कालाए सेणं' ति कालप्रकारेण, कालत इत्यर्थः, नारकाणां १० वर्षसहस्रा स्थितिर्जघन्या, सा चासंज्ञिभवसत्कजघन्यान्तर्मुहूर्त्ताधिका, 'उक्को सेणं' ति इह पल्योपमासख्येयभागः प्राग्भवासंज्ञिनारकोत्कृष्टायुष्करूपः पूर्वकोटी चासंज्ञ्युत्कृष्टायुष्करूपेति, एवमेते सामान्येषु रत्नप्रभानारके पूत्पित्सवोऽसंज्ञिनः प्रोक्तो दण्डकः प्रथमः । अर्थ जघन्य स्थितिषु तेषूत्पित्स्रंस्तान्निरूपयन्नाह - 'पज्जन्ते' त्यादि, सर्वं चेदं प्रतीतार्थमेव, २ दण्डकः, उत्कृष्टस्थितिषु रत्नप्रभानार के पूस्पित्सावपि वाच्यः ३, एवमेते त्रयो गमा निर्विशेषणमसंज्ञिनमाश्रित्योक्ताः, एवमेते एव तं पर्याप्तासंज्ञिनं जघन्यस्थितिक ३ मुत्कृष्टस्थितिकं ३ चाश्रित्य वाच्याः, तदेवमेते ९ गमाः; तत्र जघन्यस्थितिपर्याप्तासंज्ञिनमाश्रित्य ९, सामान्यनारकगम उच्यते 'जहणणे' त्यादि 'आउं उज्झवसाणा अणुबंधो य'त्ति आयुरन्तर्मुहूर्त्तमेव, जघन्यस्थितेरसंज्ञिनोऽधिकृतत्वात्, अध्यवसायस्थानान्यप्रशस्तान्येवान्तर्मुहूर्त्तस्थितिकत्वात्,दीर्घ २४ श० १ उद्देशः ||॥२५५॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy