________________
श्रीभग लघुवृत्ती
womanommandiIMSHIMIREONE
२० श |९-१० उद्देश:
mom anNOMINADMISADHIMIRMIar mammipi misalpormmilan HD
| तपोलब्धि क्षममाणस्य-अधिसहमानस्य, तपः कुर्वत इत्यर्थः, 'सीहा गई'त्ति शीघ्रा गतिः, 'जंबुद्दीवेत्ति ततश्च देवें अंति 'हव्यमागच्छेज्जा' इत्यत्र यथा शीघ्राऽस्य देवस्य गतिरित्ययं वाक्यशेषों दृश्यः, से णं तस्स ठाणस्स'त्ति अयं भावः-लब्ध्यु| पजीवनं किल प्रमादस्तस्मिन् सेवितेऽनालोचिते च न स्याच्चारित्राराधना, यदत्रोक्तं विद्याचारणस्योत्पातद्वयेन गमनं एकेनागमनं
च जङ्घाचारणस्य (सू. ६८५) तु गमनमेकेन आगमनं च द्वयेन तल्लब्धिस्वभावात् , अन्ये त्वाहुः-विद्याचारणस्य गमनकाले विद्याऽभ्यस्ततरा स्यादित्येकेनागमनं, गमने तु न तथेति, जङ्घाचारणस्य तु लब्धिरुपजीव्यमानाऽल्पसामर्थ्या स्यात् इत्यागमनं द्वाभ्यां, गमनं चैकेन ॥ २० शते नवमः ॥
'सोवकमाउयत्ति (सू. ६८६) उपक्रमोप्राप्तकालस्यायुषो निर्जरणं तेन सह यत्तत् सोपक्रमं तदायुर्वन्तःसोपक्रमायुषः, तद्विपरीता निरुपक्रमायुषः । इह गाथे-"देवा नेरइयावि य असंखवासाउया य तिरिमणुया । उत्तमपुरिसा य तहा चरमसरीरा य निरुवकमा |सेसा संसारत्था हवेज सोवकमा य इयरे य। सोवकमनिरुवक्कमभेओ भणिओ समासेणं ॥२॥"ति, 'आउवक्कमेणं'ति (सू . ६८७) आत्मना-स्वयमेव आयुष उपक्रमः आत्मोपक्रमस्तेन, मृत्वा इति शेषः, उत्पद्यन्ते नारकाः यथा श्रेणिकः, परोपकमेण-परकृतमरणेन यथाकूणिकः, निरुपक्रमेण स्वभावेन यथा कालसौकरिकः, यतः सोपक्रमायुष इतरे च तत्रोत्पद्यन्ते, 'आयडिय'त्ति आत्मा , नेश्वरादिप्रभावेनेत्यर्थः, 'आयकम्मुण'त्ति आत्मकर्मणा 'आयप्पओगेण'त्ति आत्मव्यापारेण । 'नेरइएत्ति (सू. ६८८) कतिसञ्चिताः कति सङ्ख्यावाची, ततश्च कतित्वेन सश्चिताः-एकसमये सङ्ख्यातोत्पादेन पिण्डिताः कतिसञ्चिताः, एवं 'अकइसंचिय'त्ति नवरं 'अकई'त्ति सङ्ख्यानिषेधः असङ्ख्यातत्वमनन्तत्वं च, 'अब्वत्तग'त्ति द्वयादिसङ्ख्या
२५२॥