________________
श्रीभग० लघुवृत्तौ
मेतेऽपि १६ भङ्गाः, 'एवं गुरुएणं' ति 'एगत्तेणं'ति तथा कर्कशादिनैकवचनान्तेन गुरुपदेन बहुवचनांतेन ४ तथा गुरुष्णाभ्यां ४, एवं गुरुशीताभ्यां ४, एवं गुरुशीतोष्णैः ४ एवेमेते १६, तथा गुरुलघुभ्यां बहुवचनान्ताभ्यां ४, एवं गुरुलघुष्णै: ४, गुरुलघुशीतैः ४ गुरुलघुशीतोष्णैः ४ एते १६, एते आदितः सर्वेऽपि ६४, 'कक्खडमउएहिं एगत्तेहिं'ति कर्कशमृदुपदाभ्यामेकवचनान्ताभ्यां ६४ भङ्गा लब्धा इत्यर्थः, 'ताहे' त्ति तदनन्तरं 'कक्खडेणं' ति कर्कश पदेनैकत्वगेन, एकवचनान्तेनेत्यर्थः, 'मंउएणं' ति 'पोहत एणं' ति मृदुपदेन पृथक्त्वगेन, अनेकवचनान्तेनेत्यर्थः, 'एते चेव'ति एत एव प्रागुक्ताः ६४ भङ्गाः कर्त्तव्याः, 'ताहे कक्ख| डेणं'ति ततः कर्कशपदेन बहुवचनान्तेन मृदुपदेनैकवचनान्तेन ६४, एताश्चादितश्चतस्रः चतुःषष्टयो मीलिताः द्वे शते पञ्चाशदधिके स्यातां 'सव्वे ते अट्ठफासे 'त्ति दो छप्पन्ना भंगसया भवंति । एतत्सुखबोधाय यन्त्रकमिदं दे क दे क दे मृ दे गुदेल देशी देउ दे निदेरू । 'बारसछण्णउयसया भंगा भवति' त्ति बादरस्कन्धे चतुरादिकाः स्पर्शाः स्युः, तत्र चतुःस्पर्शादिषु क्रमात् पोडशानामष्टाविंशत्युत्तरशतस्य चतुरशीत्यधिकशतत्रयस्य द्वादशोत्तरशतपञ्चकस्य षट्पञ्चाशदधिशतद्वयस्य च भावाद् यथोक्तं मानं स्यात् । 'कइविहे 'ति (सू. ६७१) द्रव्यरूपः परमाणुर्द्रव्यपरमाणुः - एकोऽणुः, वर्णादिभावानामविवक्षणात् द्रव्यत्वस्यैव चः विवक्षणादिति, एवं क्षेत्रपरमाणुराकाशप्रदेशः, कालपरमाणुः समयः, भावपरमाणुः परमाणुरेव वर्णादिभावानां प्राधान्यविवक्षणात् सर्वजघन्यकालत्वादिर्वा, 'चउव्विहे'त्ति एकोऽपि द्रव्यपरमाणुर्विवक्षया चतुःखभाव: 'अच्छे'त्ति अच्छेद्यः शस्त्रादिना, अदह्योऽग्निना सूक्ष्मत्वाद् अत एवाग्राह्यो हस्तादिना 'अणड्डे'त्ति समसंख्यावयवाभावात् 'अमज्झे' ति विषमसङ्ख्यावयवाभावात् 'अप्पएस' त्ति निरंशः, अवयवाभावात्, 'अविभाइमे' त्ति अविभागेन निर्वृत्तोऽविभागिमः, एकरूप इत्यर्थः, विभाजयितुमशक्यो वेति ॥ २० शते पञ्चमः ॥
१२० श०
५ उद्देशः