________________
श्रीभग
२
. श. ५ उद्देशः
लघुवृत्तो
अन्या च कर्कशमृद्वोः, एवं सर्वमीलने १२८ भङ्गाः स्युः, 'छप्फासेत्ति तत्र सर्वकर्कशो १ गुरुश्च २ देशश्च शीतः३ उष्णः ४ स्निग्धो ५ रूक्षश्चेति ६, इह च देशशीतादीनां चतुर्णा पदानामेकत्वादिना १६, एते च सर्वकर्कशगुरुभ्यां लब्धाः, एत एव कर्क- |शलघुभ्यां लभ्यन्ते, तदेवं ३२, इयं च द्वात्रिंशत् सर्वकर्कशपदेन लब्धा, इयमेव च सर्वमृदुना लभ्यते, सर्वे जाताः ६४ भङ्गाः,
इयं च चतुःषष्टिः सर्वकर्कशगुरुलक्षणेन द्विकसंयोगेन सविपर्ययेण लब्धा, तदेवमन्योऽप्येवंविधो द्विकसंयोगस्तां लभते, कर्कशगुरुं| शीतस्निग्धलक्षणानां चतुणां पदानां षड् द्विकसंयोगाः, तदेवं चतुःषष्टिः पडिदिकसंयोगैर्गुणिता ३८४ भङ्गाः स्युः, 'सव्वेऽवि ते छप्फासे'त्ति, 'जे सत्तप्फासे'त्ति इहाद्यं कर्कशाख्यं पदं स्कन्धव्यापकत्वाद्विपक्षरहितं शेषाणि तु गुर्वादीनि षट् स्कन्धदेशाश्रितत्वात् सविपक्षाणीत्येवं सप्त स्पर्शाः, एषां च गुरूणां पदानामेकत्वानेकत्वाभ्यां ६४ भङ्गाः स्युः, ते च सर्वशब्दविशेषितेन | आदिस्थेन कर्कशपदेन लब्धाः, एवं मृदुपदेनापि, एवं जातं १२८, एवं गुरुलघुभ्यां शेषैः पतिः सह १२८, शीतोष्णाभ्यामपि |१२८, एवं स्निग्धरूक्षाभ्यामपि, तदेवमष्टाविंशत्युत्तरशतस्य चतुर्भिर्गुणने जाताः ५१२ भङ्गाः, एवं सत्तफासे पंच बारसुत्तरा भंग| सयेति । 'अट्ठफासे'त्ति चतुर्णा कर्कशादिपदानां सविपर्ययाणामाश्रयणादष्टौ स्पर्शाः, एते च बादरस्कन्धस्य द्विधाविकल्पितस्यै| कत्र देशे चत्वारोऽविरुद्धाः, विरुद्धास्तु द्वितीये, एषु चैकत्वानेकत्वाभ्यां भङ्गाः स्युः, तत्र रूक्षपदेनैकवचनान्तेन च द्वावेतौ स्निग्धैकत्ववचनेन लब्धौ, एतावेव स्निग्धबहुत्वं लभेते, एते चत्वारः, एते च सूत्रमध्ये चतुष्ककेन सूचिताः, एतेष्वेवाष्टसु पदेषु उष्णपदेन बहुवचनान्तेनोक्तचतुर्भङ्गीयुक्तेनान्ये चत्वारः, एवं शीतपदेन बहुवचनान्तेन एत एव ४, तथा शीतोष्णपदाभ्यां बहुवचनान्ताभ्यां ४, तथा लघुशीतपदाभ्यां गुरुशीतपदाभ्यां बहुवचनान्ताभ्यां ४ एवं लघूष्णपदाभ्यां ४ एवं लघुशीतोष्णपदैः ४, एव