________________
श्रीभग लघुत्तौ
२०.० उद्देश:
HIONARIALAIRAIL
चतुर्वर्णेतु प्रागुक्तानां अष्टमद्वादशान्तिमभंगत्रयवजितानां शेषा एकादश स्युः, एषां च पश्चसु चतुष्कसंयोगेषु प्रत्येकं भावात् पञ्चपञ्चाशदिति 'जइ पंचवणे'त्ति षड् भङ्गाः, 'छ.सीयं भंगसयंति एकादिसंयोगसम्भवानां पञ्चचत्वारिंशदशीतिपञ्चाशत| षट्सङ्ख्यभङ्गकानां मीलनात् षडुत्तराशीत्यधिकं भङ्गकशतं स्यादिति, 'सत्तपएसिए'त्ति इह चतुर्वर्णत्वे प्रागुक्तानां पोडशानामन्तिमवर्जाः शेषाः १५ स्युः, एषां च पञ्चसु चतुष्कसंयोगेषु प्रत्येकं भावात् ७५ भङ्गाः 'जइ पंचवण्णे'त्ति इह पञ्चानां पदानां ३२ भङ्गाः, स्युः, तेष्वाद्यानां षोडशानामष्टमद्वादशान्त्यत्रयवर्जिताः शेषाः उत्तरेषां च षोडशानामाद्यास्त्रयः पञ्चमनवमौ चैवं सर्वेऽपि १५ सम्भवन्ति, 'दोसोला भंगसय'त्ति एकद्वित्रिचतुःपञ्चकसंयोगजानां पञ्चचत्वारिंशदशीतिपश्चाधिकसप्ततिषोडशसङ्ख्यानां भङ्गकानां मीलनात् द्वे शते षोडशोत्तरे स्थातामिति ।। 'अट्ठपदेसिए'त्ति इह चतुर्वर्णत्वे प्रागुक्ताः १६ स्युः, तेषां च प्रत्येकं पञ्चसु चतुष्कसंयोगेषु भावात् ८० भङ्गाः, पञ्चवर्णत्वे तु ३२ भङ्गानां १६-२४-२८ अन्त्यत्रयवर्जाः शेषाः २६ भङ्गाः स्युः, 'दो इक्कतीसाईति प्रागुक्तानां पञ्चचत्वारिंशदशीत्यशीतिषडुत्तरविंशतिसङ्ख्यानां मीलनात् द्वे शते एकत्रिंशदुत्तरे स्यातां । 'नवपदेसियरस'त्ति इह पञ्चवर्णत्वे द्वात्रिंशद्भङ्गानामन्त्य एव न स्यात् , शेषं प्रागुक्तानुसारेण भाव्यं । 'बादरपरिणए णं'ति (सू . ६७०) सर्व एव कर्कशो गुरुः शीतः स्निग्धश्च एकदैवाविरुद्धानां स्पर्शानां सम्भवादित्येको भङ्गः, चतुर्थपदव्यत्यये द्वितीयः, | एवमेते एकादिपदव्यभिचारेण १६ भङ्गाः, 'पंचप्फासे'त्ति कर्कशगुरुशीतैः स्निग्धरूक्षयोरेकानेकत्वकृता चतुर्भङ्गी लब्धा, एम्वेव च कर्कशगुरूष्णैर्लभ्यत इत्येवमष्टौ, एते चाष्टौ कर्कशगुरुभ्यामेव, अन्ये कर्कशलघुभ्यां, एवमेते १६ कर्कशपदेन लब्धाः , एत एव! मृदुपदं लभत इत्येवं कर्कशपद एव द्वात्रिंशत् स्निग्धरूक्षयोरेकत्वादिना लब्धा, अन्या. द्वात्रिंशच्छीतोष्णयोः अन्या च गुरुलघ्वोः |