SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ श्रीभगवती सूत्रम् छद्मस्थवक्तव्यतामुद्देशकान्तं यावदाह - 'संजमेणं' ति (सू०४३) संयमेन - पृथिव्यादिरक्षणरूपेण संवरेण-इन्द्रियकपायनिरोधेन, एतच्च गौतमेनानेनाभिप्रायेण पृष्टं, यदुत उपशान्तमोहावस्थायां सर्वविशुद्धाः संयमादयः स्युः, विश्रुद्धसंयमसाध्या च सिद्धिरिति, सा न छद्मस्थस्य स्यादिति, अंतं करें 'ति भवान्तकारिणः, 'अंतिमसरीरि' त्ति अन्तिमवपुषः चरमदेहाः, 'आहोहिय'त्ति 'आहोहिए णं भंते! मणूसे तीतमणंतं सासय' मिति दण्डकत्रयं तत्र अधः- परमावधेरधस्ताद्योऽवधिः सः अधोऽवधिस्तेन यो व्यवहरत्यसावधोऽवधिकः, परिमितक्षेत्राधिक इति, 'परमोहिय'त्ति परमाधोऽवधिकः, स द्रव्यतः सर्वरूपिद्रव्याणि क्षेत्रतोऽलोकेऽसङ्ख्यातलोकमात्रालोकखण्डानि कालतोऽसङ्ख्यातावसप्पिणीः पश्येद्, असौ परमावधिक ज्ञानविषयः, तस्यान्तर्मुहूर्त्तात्परतः केवलोत्पत्तिः 'अलमत्यु' त्ति अलमस्तु - पर्याप्तं भवतु ।। इति प्रथमशते चतुर्थोद्देशक विवरणम् अनन्तरोद्देशकान्ते अर्हदादय उक्ताः, ते पृथिव्यां स्युः अथवा पृथिवीत उद्त्ता मनुजत्वमवाप्ताः सन्तस्ते स्युरिति पृथिवी स्वरूपमाह-'छण्हंपि जुयलाणं' (११० गाथा), तत्र दक्षिणोत्तरदिग्भेदतोऽसुरादिनिकाये पट्सु युगलेषु षट्सप्ततिर्भवनलक्षमिति, षड्युगलानामयं विभागः - 'चउतीसा चउचत्ता अट्ठत्तीसं च सयसहस्साओ । पण्णा चत्तालीसा दाहिणओ हुंति भवणाई ॥१॥ चउचउलक्खविहूणा तावइया चेव उत्तरदिसाए ।' 'पुढवि' त्ति 'जीवावाससयसहस्स' त्ति पृथिव्यादिषु जीवावासानां जीवावस्थानस्थानानां शतसहस्राः - असङ्ख्याताः स्युः, 'पुढविटिई ओगाहण' त्ति, गाहा (१५) 'पुढवि' त्ति पृथिव्यादिषु जीवावासेषु इति द्रष्टव्यं, 'ठिइ' त्ति 'सूचनात् सूत्र' मिति न्यायात् स्थितिस्थानानि वाच्यानि, 'ओगाहण'त्ति अवगाहनास्थानानि शरीरादिपदानि व्यक्ता १२ शतके ४ उद्देशः ॥२४॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy