________________
सूत्रम्
श्रीभग माद्वेदयति, विपाकस्याननुभवनेऽपि कर्म्म प्रदेशानामवश्यंक्षपणात् प्रदेशेभ्यः प्रदेशान्नियमाच्छातयतीत्यर्थः, अनुभागकर्म च तथा वती- संवेदयति वा न वा, यथा मिध्यात्वं तत्क्षयोपशमकालेऽनुभागकर्मतया न वेदयति, प्रदेशकर्मतया तु वेदयत्येव, इह च प्रदेशानुभागरूपे द्विविधे कर्म्मणि वेदयितव्ये प्रकारद्वयमस्ति ।। कर्म्मस्वरूपमर्हतैव ज्ञायते इति दर्शयन्नाह - 'णायमेयं' ति ज्ञातं - सामान्ये नावगतं एतद्-वक्ष्यमाणं वेदनाप्रकारद्वयं अर्हता जिनेन १, 'सुर्य'ति स्मृतं प्रतिपादितमनुचिन्तितं वा 'विन्नायं'ति विविधैः देशकालादिविभागरूपैर्ज्ञातं विज्ञातं, 'इमं कम्मं'ति 'अयं जीवे' त्ति, अनेन द्वयोरपि प्रत्यक्षतामाह, केवलित्वादर्हतः, 'अज्झोवगमियाए 'त्ति प्राकृतत्वात् अभ्युपगमः प्रव्रज्याप्रतिपत्तितो भूमिशयनब्रह्मचर्य केशलुञ्चनादीनामङ्गीकारः तेन निर्वृत्ता आभ्युपगमिकी तया वेदनया वेदयिष्यति, भविष्यत्कालनिर्देशः भविष्यद्वस्तुविशिष्टज्ञानतामेव द्योतयति, अतीतो वर्त्तमानश्च पुनरनुभवद्वारेणान्यस्यापि ज्ञेयः सम्भवति, 'उवक्कमित्ति उपक्रम्यतेऽनेनेत्युपक्रमः - कर्मवेदनोपायस्तत्र भवा औपक्रमिकी - स्वयमुदीर्णस्योदीरणाकरणेनोदयं नीतस्य वा कर्मणोऽनुभवस्तया औपक्रमिक्या वेदनया वेदयिष्यति, 'अहाकम्मं 'ति यथाकर्म्म- बद्धकर्मानतिक्रमेण 'अहानिकरण 'ति निकरणानां - नियतानां देशकालादीनां करणानां विपरिणामहेतूनां (अनति) क्रमेण यथा २ तत् कर्म्म भगवता दृष्टं तथा २ विपरिणस्यति इत्युक्तं । अनन्तरं कर्म्म चिन्तितं तच्च पुद्गलात्मकं इति परमाण्वादिपुद्गलांश्चिन्तयन्नाह – 'एस णं भंते! पोग्गले' त्ति (सू०४२) एषः - परमाणुः, उत्तरत्र स्कन्धग्रहणात्, 'अतीतं ति अतीतं अनन्तं शाश्वतं समयं कालं 'भुवी 'ति अभूत् इत्येतद् वक्तव्यं स्यात् ?, सद्भूतार्थत्वात्, 'पडुप्प' त्ति प्रत्युत्पन्नं - वर्त्तमानं वर्त्तमानस्यापि शाश्वतत्वसद्भावाद्, एवमनागतस्यापीति, खंधेणेति इति वचनात् स्कन्धग्रहणं, तेन स्कन्धे त्रय आलापका वाच्याः, एवं जीवपदेनापि || जीवाधिकारात्
९ शतके ३ उद्देशः