SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ श्रीभगवतीसूत्रम् बालपंडियवीरित्ताएं' तत्र च मिथ्यात्वमोहोदये बालवीर्यस्यैव भावादन्यवीर्यनिषेध इति । उदीर्णविपक्षत्वादुपशान्तस्येत्युपशमसूत्रद्वयम्, 'उवडाएज पंडिय'त्ति, उदीर्णालापकापेक्षयोपशान्तालापकयोरयं विशेषः - प्रथमालापके सर्वथा मोहनीयेनोपशान्तेन सता उपतिष्ठेत क्रियासु पण्डितवीर्येण, उपशान्तमोहावस्थायां पण्डितवीर्यस्यैव भावात्, इतरयोरभावात्, वृद्वैस्तु काश्चिद्वाचनामाश्रित्येदं व्याख्यातं - मोहनीयेनोपशान्तेन ( न मिथ्यादृक् ) साधुः श्राद्धो वा [ मिथ्यादृक् ] स्यात् इति द्वितीयालापक: 'अवक्क| मेज बालपंडियवीरिय'त्ति, उपशान्तमोहनीयेन संयतत्वात् बालपण्डितवीर्येणापक्रामन् देशविरतः स्यात्, देशतस्तस्य मोहोपशमसद्भावात् नतु मिथ्यादृग्, मोहोदय एव तस्य सद्भावात्, मोहोपशमस्य चेहाधिकृतत्वात् इति । 'से णं भंते 'त्ति, सः असौ जीवः 'आयाए 'ति आत्मना, 'अणायाए 'त्ति अनात्मना परतः अपक्रामति-अपसर्पति ?, पूर्वं पण्डितरुचिर्भूत्वा पचान्मिश्ररुचिर्मिथ्यारुचिर्वा स्यात्, 'वेएमाणे 'त्ति मोहनीयं मिथ्यात्वमोहनीयं चारित्रमोहनीयं वा वेदयन् सः, उदीर्णमोह इत्यर्थः, 'से कहमेयं'ति, अथ कथं ? - केन प्रकारेण एतद् अप्रक्रमणं, एवंति मोहनीयं वेदद्यमानस्येति, इहोत्तरम् - 'गौतम' त्यादि, 'पुवि से एयंति पूर्व अपक्रमणकालात् प्राग् असौ अपक्रमणकारी जीवः, एतजीवादि अहिंसादि वा वस्तु, 'एवं' यथा जिनैरुक्तं रोचते श्रद्धत्ते कुर्याद्वा, इदानीं - मोहनीयोदयकाले स जीवः, एतत् - जीवादि अहिंसादि वा एवं यथा जिनैरुक्तं न रोचते न श्रद्धत्ते न कुर्याद्वा, 'एवं खलु'त्ति एवं उक्तप्रकारेण एतद्-अपक्रमणं एवं - मोहनीयवेदने इति । मोहनीयाधिकारात् सामान्यकर्म्म चिन्तयन्नाह - ' से नृणं 'ति 'पएसकर मे' त्ति प्रदेशाः - कर्म्मपुद्गला जीवप्रदेशेष्वन्तर्भूतास्तद्रूपं कर्म प्रदेशकर्म, 'अणुभागकम्मे त्ति अनुभागः - तेषामेव कर्म्मप्रदेशानां संवेद्यमानताविषयो रसस्तद्रूपं कर्म्म अनुभागकर्म्म, 'तत्थ णं'ति तत्र यत् प्रदेशकर्म्म तन्निय १ शतके उद्देशः ॥२३॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy