SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ ul२०२० श्रीभग लघुवृत्ती ५ उद्देशः देशावगाहादिना कारणेन भेदेन विवक्षितमतो नीलकाविति व्यपदिष्टमिति द्वितीयः, अथ द्वौ कालकावेकस्तु नील इति तृतीयः, एवमेकत्र द्विकयोगत्रयाणां भावादशसु द्विकयोगेषु ३० भेदाः, एते सूत्रसिद्धा एव, त्रिवर्णतायां तु एकवचनस्यैव सम्भवात् दश | त्रिकसंयोगाः स्युरिति, गन्धे त्वेकगंधे द्वौ द्विगन्धतायां तु एकत्वानेकत्वाभ्यां प्राग्वत् त्रयं 'जइ दुफासे'त्ति समुदितस्य प्रदेशत्रयस्य द्विस्पर्शतायां द्विप्रदेशिकवच्चत्वारः, त्रिस्पर्शतायां तु सर्वः शीतः, प्रदेशत्रिकस्यापि शीतत्वात् , देशश्च स्निग्ध एकप्रदेशात्मको, देशो रूक्षो द्विप्रदेशात्मको, द्वयोरपि तयोरेकप्रदेशावगाहादिनकत्वेन विवक्षितत्वात् , एवं सर्वत्र इत्येको भङ्गः, तृतीयपदस्य बहुत्वे द्वितीयः, द्वितीयपदबहुत्वे तृतीयः, तदेवं सर्वशीतेन भङ्गत्रयं ३, एवं सर्वोष्णेनापि ३, एवं सर्वस्निग्धेनापि ३, एवं सर्वरूक्षेणापिका |३, एवं सर्वे १२, चतुःस्पर्शतायां तु 'देसे सीए' इत्यादि एकवचनान्तपदचतुष्का,आद्यस्थापना चेयं-अन्त्यपदस्य बहुत्वे २, स चैवं-द्वयरूपो देशः शीतः, एकरूपः उष्णः, पुनः शीतयोरेकः स्निग्धः द्वितीयश्चोष्णः, एतौ रूक्षाविति रूक्षपदे बहुत्वं, तृतीयस्तु बहुत्वरूपतृतीयपदः, स चैवं-एकरूपो देशः शीतः द्विरूपस्तूष्णः, तथा यः शीतः यश्चोष्णयोरेकस्तौ स्निग्धावित्येवं स्निग्धपदे बहुत्वं, | यश्चैक उष्णः स रूक्षः, चतुर्थस्तु बहुत्वरूपद्वितीयपदः, स चैव-स्निग्धरूपस्य द्वयस्यैकः शीतो यश्च तस्यैव द्वितीयोऽन्यश्चैको रूक्षः, एतावुष्णावित्युष्णपदे बहुत्वं, स्निग्धे तु द्वयोरेकप्रदेशाश्रितत्वादेकवचनं रूक्षे त्वेककत्वादेवेति, पञ्चमस्तु द्वितीयचतुर्थपदयोबहुत्वेन, स चैवं-एकः शीतः स्निग्धश्च, अन्यौ च पृथग्व्यवस्थितावुष्णौ रूक्षौ च इत्युष्णरूक्षयोबहुत्वं, षष्ठस्तु द्वितीयतृतीयपदयोबहुत्वे, स चैवम्-एकः शीतो रूक्षश्च, अन्यौ च पृथग्व्यवस्थितावुष्णौ स्निग्धौ चेत्युष्ण स्निग्धयोबहुत्वं, सप्तमो बहुत्वेनाद्यपदः, स चैव-स्निग्धरूपस्य द्वयस्यैकोऽन्यश्चैकः एतौ द्वौ शीताविति बहुत्वमाद्यस्य, अष्टमस्तु बहु-वादिनांतिमपदः, स चैवं-पृथकस्थितयोः ॥२४८॥ maha
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy