________________
श्रीभग० लघुवृत्तौ
'नण्णत्थ आयाएं परिणमंति'त्ति (सू. ६६६) नान्यत्रात्मनः परिणमन्ति, आत्मानं वर्जयित्वा नान्यत्र ते वर्त्तन्ते, आत्मपर्यायत्वादेषां पर्यायिणा सह कथञ्चिदेकत्वादात्मरूपाः सर्वे एवैते न मनोभिन्नत्वेन परिणमन्तीति भावः । एवं जहे' त्यादि(सू. ६६७) नेदं सूचितम् - कतिरसं कतिफासं परिणम इत्यादि ।। २० शते तृतीयः ॥
'इंदिउद्देसउ'त्ति (सू. ६६८ ) यथा प्रज्ञापनापश्ञ्चदशपदस्येन्द्रियपदस्य द्वितीयोदेशकस्तथाऽयं वाच्यः, स चैवम् - सोइंदिय० चक्खिदियउचचए घाणिदियउव० एवं जिब्भिदिय० फासिंदियउवचए' इत्यादि ॥ २० शते चतुर्थः ॥
अथ परमाणुखरूपमुच्यते- एगवण्ण' त्ति (सू. ६६९) कालादिवर्णानामन्यतरयोगात्, एवं गन्धादिष्वपि वाच्यं 'दुफासे' ति शीतोष्ण स्निग्धरूक्षाणामन्यतराविरुद्धस्य द्वितयस्य योगात् द्विस्पर्शः, तत्र भेदाः ४, शीतस्य स्निग्धेन रूक्षेण च द्वौ, एवमुष्णस्यापि द्वौ इति चत्वारः, शेषास्तु स्पर्शा बादराणामेव स्युः, 'दुपएसिए ण' मित्यादि, द्विप्रदेशिकस्यैकवर्णता प्रदेशद्वयस्याप्येकवर्णपरिणामने, तत्र कालादिभेदेन पञ्च विकल्पाः, द्विवर्णता तु प्रतिप्रदेशं वर्णभेदात्, तत्र द्विक्संयोगजाता दश ते सूत्रसिद्धा एव, एवं गन्धरसेष्वपि, नवरं गन्धे एकत्वे द्वौ द्विकयोगे त्वेकः, रसेष्वेकत्वे पञ्च द्वित्वे तु १०, स्पर्शेषु तु द्विस्पर्शतायां चत्वारः प्रागुक्ताः, 'ज इतिफासे' त्ति, 'सम्वे सीए 'त्ति प्रदेशद्वयमपि शीतं, तस्यैव द्वयस्य देश एक इत्यर्थः, स्निग्धः २ देशश्व रूक्षः ३ इत्येको भङ्गः सः, एवमन्येऽपि त्रयः सूत्रसिद्धा एव, चतुःस्पर्शे त्वेकः, एवं द्वि ४ त्रि ४ चतुःस्पर्शेषु १ मीलनात् सर्वे स्पर्शभङ्गा मीलिता ९, 'तिपएसिए' 'सिय कालए'त्ति त्रयाणामपि प्रदेशानां कालत्वादित्वेनैकवर्णत्वे पञ्च भेदाः द्विवर्णतायां चैकः प्रदेशः कालः प्रदेशद्वयं। तु तथाविधैक प्रदेशावगाहादिकारणमपेक्ष्य एकत्वेन विवक्षितमिति स्यान्नील इत्येकः, अथवा स्यात्कालस्तथैव प्रदेशद्वयं तु भिन्न
२० श०
३-४-५
उद्देश :