________________
श्रीभग लघुवृत्तौ
२०० २ उद्देश:
स्तिकायस्याभिवचनानि, नामानीत्यर्थः । 'अधम्मे'त्ति धर्मविपरीतोऽधर्मो-जीवपुद्गलानां स्थित्युपष्टम्भकारी, शेषं प्राग्वत, | 'नभत्ति न भाष्यत इति नमः, 'समेति निम्नोन्नतत्वाभावात् , 'विसम'त्ति दुर्गमत्वाद्विषमं 'खहे'त्ति खनने भुवो हनने चत्यागे यत्स्यात्तत्वहं 'विह'त्ति विशेषेण हीयते-त्यज्यते तदिति विहायः 'वीइत्ति विवेचनाद्विविक्ततास्वभावत्वात् विवरत्ति | विगतवरणतया विवरं 'अंबर'न्ति अम्बेव-मातेव जननसाधात् अम्बा-जलं तस्य राणाद्-दानान्निरुक्तितोऽबरं 'अंबरसे'त्ति अम्बा-प्रागुक्तयुक्त्या जलं तद्रूपो रसो यस्मात्तदम्बरसं 'छिड्डे'त्ति छिद्रः छेदनस्यास्तित्वात् छिद्रमिति, 'सुसिरेति शुषेः-शोषस्य दानाच्छुषिरं 'मग्गेत्ति पथिरूपत्वान्मार्गः, 'विमुहत्ति मुखादेरभावाद्विमुखं, 'अहे'त्ति अद्यते-गम्यते अनेनेति अहः, 'एवं वियदृ'त्ति स एव विशिष्टो व्यहः, 'वोमो'त्ति विशेषेणावनात् 'वोमभायणे त्ति विश्वस्याश्रयणाद्भाजनं 'अंतलिक्खे'त्ति अन्तः-मध्ये ईक्षा-दर्शनं यस्य तदन्तरीक्षं 'सामेत्ति श्यामं 'उवासंतरे'त्ति अवकाशरूपमन्तरं अवकाशान्तरं अगमं गमन| क्रियारहितत्वात् 'वेयाइ'त्ति वेदरूपत्वात् 'चेयाइ'त्ति चेता पुद्गलानां चयकारी 'जेय'त्ति जेता कर्मरिपूणां 'आय'त्ति
आत्मा सततगामित्वात् 'रंगणे'त्ति रङ्गणं रागः तद्योगाद्रंगणः, हिंडए'त्ति हिण्डकत्वेन हिण्डकः,गमनशील इत्यर्थः, पोग्गल'त्ति | पूरणाद् गलनाच्च वपुरादीनामिति पुद्गलाः, 'माणव'त्ति मा निषेधे नवः-प्रत्यग्रो मानवः अनादित्वात् , पुराण इत्यर्थः, 'कत्त'|त्ति कर्ता कर्मणां, विकर्ता-विशेषतो विच्छेदकः कर्मणां 'जए'त्ति अतिशयगमनाजगत् , जननाजन्तुः 'जोणी'त्ति योनिरन्येषामुत्पादकत्वात् 'सयंभुत्ति स्वयंभवनात खयंभूः 'ससरीर'त्ति सह शरीरेणेति सशरीरी 'नायए'त्ति नायकः-कर्मणां नेता 'अंतरप्पत्ति अन्तः-मध्यरूप आत्मा, न शरीररूप इत्यन्तरात्मेति ।। २० शते द्वितीयः ।।
२४७॥
S