________________
श्रीभग० लघुवृत्तौ
पाणातिपाताद्यर्थः ३, 'उवचए' त्तिं श्रोत्रेन्द्रियाद्युपचयार्थः ४, 'परमाणु'ति परमाणुरूप: ५, 'अंतर' ति रत्नप्रभाशर्करा प्रभाद्यन्तरालवाच्यः ६ ' बंधे' त्ति जीवप्रयोगादिवन्धार्थः ७ 'भूमि' त्ति कर्माकर्मभूम्यादिवाच्यः ८, 'चारण'त्तिं चारणश्रमणादिवाच्यः 'सोवक्कमा जीव'त्ति सोपक्रमायुषो निरुपक्रमायुषश्च जीवा दशमे वाच्याः ॥ 'सिय'त्ति (सू. ६६३) स्यात् - कदाचित्, न सर्वदा, 'एगयओ'त्ति एकतः - एकीभूय, संयुज्य इत्यर्थः, 'साहारणसरीरसम्बन्धि'ति साधारणशरीरमनेकजीव सामान्यं बभन्ति, प्रथमतया तत्प्रायोग्यपुद्गलग्रहणतः, 'पण्णवणाएं'ति त्रीन्द्रियाणां उत्कृष्टा ४९ दिनानि चतुरिन्द्रियाणां ६ मासाः द्वयो जघन्या अन्तर्मुहूर्त्त, 'चत्तारि णाणाइ'न्ति पञ्चेन्द्रियाणां मत्यादि ४ ज्ञानानि, केवलमनिन्द्रियाणामेव, 'अत्थेगइयाणं'ति संज्ञिनामित्यर्थः, 'पाणाइवाए उवक्खाइज्जंति' असंयताः, 'पाणाइ० 'त्ति संयताः, 'जेसिंपिय णं'ति येषामपि जीवानां सम्बन्धिनातिपातादिना ते पञ्चेन्द्रिया जीवा एवमाख्यायन्ते यथा प्राणातिपातादिमन्त एते तेषामपि जीवानामस्त्ययमर्थो यदुत केपां संज्ञिनामित्यर्थो विज्ञातं - प्रतीतं नानात्वं भेदो यदुतैते वयं वध्यादयः एते तु वधकादयः इत्यस्ति, एकेषामसंज्ञिनामित्यर्थः, नो विज्ञातं नानात्वरूपमिति ।। २० शते प्रथमः ॥
'नवरं अभिलावो'त्ति (सू. ६६४) धम्मत्थिकाए णं भंते ! इत्यादिरालापकसूत्रं, नवरं - केवलं लोयं चैव फुसित्ताणं चिट्ठ एतस्य स्थाने लोअं चेव ओगाहित्ताणं चिट्ठइ इत्ययमभिलापो द्वितीयशतकोद्देशकां दृश्यः 'अभिवयंण' त्ति (मूं. ६६५) अभिवचनानि - पर्यायशब्दा इत्यर्थः, 'धम्मेति जीवपुद्गलानां गतिधारणाद्धर्म्मः, एवं 'धम्मत्थिकाए'त्ति धर्मास्तिकाय:प्रदेशराशिः, एवं प्राणातिपातविरमणादीन्यपि वाच्यानि, 'जे यावण्णे'ति ये चान्येऽपि चारित्रधर्माभिधायकास्ते सर्वेऽपि धर्मा
"OLOLOLOLOLO
२० श० १-२उ.