________________
श्रीभग० लघुवृत्तौ
निर्जराश्च प्रायोऽशुभपरिमाणत्वात् शेषा निषेध्याः, पृथ्व्यादीनां ४ पदानि तत्परिणतेविचित्रत्वात् सव्यभिचाराणीति ॥ ।। १९ शते चतुर्थः ॥
'चरमावि'त्ति (सू. ६५६ ) अल्पस्थितयः 'ठिई पडुच 'त्ति येषां नारकाणां महती स्थितिस्ते इतरेभ्यो महाकर्मतरा: अशुभकर्मापेक्षया स्युः, येषां स्तोका स्थितिस्ते इतरेभ्योऽल्पकर्माणः स्युरिति, 'विवरीयं' ति प्रागुक्तापेक्षया विपरीतं वाच्यं तदिदम्-से नूणं भंते ! चरमासुरकुमारेहिंतो परमासुरकुमारा अप्पकम्मतरा चैव अप्पकिरियतरा चेव इत्यादि, अल्पकर्मत्वमशुभकर्मापेक्षं अल्पक्रियत्वं कायिक्यादिक्रियापेक्षं, अल्पाश्रवत्वं तु जघन्यकर्मबन्धापेक्षं अल्पवेदनत्वं पीडाभावापेक्षं इति गम्यं । 'पुढविकाइए' त्यादि, औदारिकशरीराल्पस्थितिकेभ्यो महास्थितयो महाकर्मादयः स्युर्महास्थितिकत्वादेवेति, वैमानिका अल्पवेदनाः॥ 'णिदाय'त्ति (सू. ६५७) नियतं दानं शुद्धिजीवस्य, 'दैव शोधने' इति वचनात्, निदा ज्ञानमाभोग इत्यर्थः, तद्युक्ता वेदनाऽपि निदा, आभोगवतीत्यर्थः, चशब्दः समुच्चये, 'अणिदा यत्ति अनाभोगवती जहा पण्णवणाएत्ति तदिदं गो० ! णिदायंपि अणिदायपि वेयणं वेदेति ।। १९ शते पञ्चमः ॥
'जोइसमंडिउद्देसग'त्ति (सू. ६५८ ) ज्योतिष्कमण्डिकोदेशकञ्चैवम्- 'जंबुद्दीवे णं भंते ! कइ चंदा पभासिंसु पभासंति | पभास्संति ? कइ सूरिया तवईंसु ३' इत्यादि, कियद्दूरं वाच्यं, 'जाव परिणामो 'त्ति, स चायम्- 'दीवसमुद्दा णं भंते ! किं पुढवि| परिणामा पण्णत्ते' त्यादि 'जीवउववाओ' त्ति द्वीपसमुद्रेषु जीवोपपातो वाच्यः, स चायम् — 'दीवमुद्देसु णं भंते ! सव्वे पाणा ४ पुढविकाइयत्ताए ६ उचवण्णपुव्वा ?, हंता ! असई अदुवा अणंतखुत्तो'त्ति, शेषं सूत्रलिखितमेवास्ते ।। १९ शते षष्ठः ॥
१९ श० ४-५ उ.