________________
श्रीभग० लघुवृत्ती
१९२० ३ उद्देशः
जीवाः 'एगयउ'त्ति एकतः-एकीभूय, संयुज्येत्यर्थः, 'साहारण'त्ति बहूनां सामान्यशरीरं बन्नन्ति आदितस्तत्प्रायोग्यपुद्गलग्र|हणतः 'आहारेंतित्ति उत्पत्तिसमय एव सामान्याहारग्रहणतः शरीरं वा 'बंध'त्ति आहारितपरिणामितपुद्गलः शरीरस्य पूर्ववन्धापेक्षया विशेषतो बन्धं कुर्युरित्यर्थः, 'नो इणमढे'त्ति यतः पृथ्वीकायिकाः प्रत्येकाहाराः प्रत्यकपरिणामाश्चातः प्रत्येकं शरीरं बन्नन्ति, तत्प्रायोग्यपुद्गलग्रहणतः, ततश्च प्राग्वदिति । किमाहारद्वारे 'पढमुद्देसएति एवं, यथा प्रज्ञापनाऽष्टाविंशतितमपदस्याहाराख्यस्य प्रथमोद्देशके तथेह ज्ञेयं, चिजंति' तत्पुद्गलजातं शरीरेन्द्रियतया परिणमंतीत्यर्थः,'चिपणे वासे'त्तिं चीर्ण वाऽऽहारितं 'से' तत्पुद्गलजातं 'उद्दाइ'त्ति अपद्रवति-विनश्यति मलवत् 'पलिसप्पइ वत्ति परि-समन्तात् सर्पति-गच्छति तत् परिणमति 'सण्णाइ'त्ति संज्ञाव्यावहारिकमेति 'पण्णाई'त्ति प्रज्ञा सूक्ष्मार्थविषया मतिरेव । प्राणातिपातादिद्वारे-'पाणाइवाए उवक्खाइज्जति' प्राणातिपाते स्थिता इति शेषः, प्राणातिपातवृत्तय इत्यर्थः, उपाख्यायन्ते-अभिधीयन्ते, यच्चेह वचनाद्यभावेऽपि पृथ्वी कायिकानां मृषावादादिमिरुपाख्यानं तन्मृषावादाद्यविरतिमाश्रित्योच्यत इति । अथ हन्तव्यादिजीवानां का वात्याह-'जेसिं| पिय णं'ति येषामपि जीवानामतिपातादिविषयभूतानां प्रस्तावान् पृथ्वीकायिकानामेव सम्बन्धिना अतिपातादिना 'ते जीवत्ति तेतिपातादिकारिणो जीवाः 'एवमाहिजति अतिपातादिकारिण एते इत्याख्यायन्ते, तेषामपि जीवानामतिपातादिप्रवृत्तानां, न केवलं घातकानां, 'णो विण्णाए'त्ति नो-नैव विज्ञातं नानात्वं-भेदो यदुत वयं वध्यादयः एते तु वधकादय इति, अमनस्कत्वात्तेषामिति । उत्पादद्वारे 'जहा वक्तीए'त्ति इह च व्युत्क्रान्तिः प्रज्ञापनाषष्ठं पदं, तच्चेदं-किं तिरि०मणु० देवेहिंतो उवजति?, गोनो नेरइएहितो तिरिमणुदेवेहिंतो उववजंति। समुद्घातद्वारे-'समोहयावित्ति समुपहताः-कृतसमुद्घाताः,
பாதயா பாடிய பாடிய மாய பாடமா யாதவாறு தாடியாம *காயப்பன் யாயை மர்மப்பு காப்பு தியாப்பாக
२४४॥
லும்