________________
श्रीभग० लघुवृत्तौ
अणुव्रतादि द्वादशविधं गृहिधर्मं भगवदन्ति के प्रतिपत्तुं ॥। १८ शते दशमः ॥ अष्टादशशतं वृत्तितः सम्पूर्णम् ॥
1444
अथैकोनविंशतितममारभ्यते-उद्देशकसङ्ग्रहगाथामाह - 'लेस्से 'ति (८१) लेश्योद्देशकः २ 'गम्भ'त्ति गर्भवाच्यः २ 'पुढवि'त्ति पृथ्वीवाच्यः ३ 'महासव'त्ति नारका महाश्रवा महाक्रिया इत्यादि ४ 'चरम'त्ति चरमेभ्योऽल्पस्थितिभ्यो नारकादिभ्यः परमा महास्थितयो महाकर्मतरा इत्यादि वाच्यः ५, 'दीव'त्ति द्वीपाद्यर्थः ६ 'भवणा य'त्ति भवनाद्यर्थः ७, 'निव्वत्ति'ति | निर्वृत्तिः - निष्पत्तिः शरीरादिस्तदर्थः ८, 'करण'त्ति करणार्थः ९ 'वणचरसुरा य'त्ति वनचरसुरा- व्यन्तरदेवास्तदर्थो दशमः १०, 'चउत्थो' त्ति (सू. ६४९) प्रज्ञापनालेश्यापदस्य सप्तदशस्य चतुर्थ उद्देशकोऽत्र भणितव्यः, स चैवं- 'कण्हलेस्सा जाव सुकलेस्सेत्यादिरिति ।। १९ शते प्रथमः ॥
'गग्भ'त्ति (सु. ६५०) प्रज्ञापनासप्तदशपदस्य षष्ठोदेशको गर्भसूत्रोपलक्षितो भणितव्यः, स चायम् - कण्हलेस्से णं भंते ! मणुस्से कण्हलेस्सं गब्भं जाणेजा ?, हंता ! जाणेजा । कण्हलेस्से णं भंते । मणुस्से नीललेस्सं गन्धं जाणेञ्ज ?, हंता ! जाणेञ्जा' इत्यादि ।। १९ शते द्वितीयः ॥
तृतीये द्वारगाथामाह - 'सिय १ लेस २ दिट्टि ३ नाणे ४ जोगु ५ वओगे ६ तहा किमाहारे ७ । पाणाइवाय ८ उप्पा ९ ठिई १० समुग्धाय ११ उव्वदी १२ ॥ १ ॥ " ति, तत्र स्याद्वारे - 'सिय'त्ति (सू. ६५९) स्याद् - भवेदयमर्थः, अथवा पृथ्वीकायिकाः प्रत्येकं शरीरं बभ्रन्तीति सिद्धं, किंतु 'सिय'त्ति स्यात् कदाचित् 'जाव'ति यावत्करणात् द्वौ वा त्रयो वा चत्वारः पञ्च पृथ्वीकायिका
100000
१९ श० १-२-३ उद्देशः