SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ श्रीभग० लघुवृत्तौ परिग्रहः, एतस्योपधेश्व को भेदः १, उच्यते, उपकारक उपधिर्ममत्वबुद्धितः परिगृह्यमाणस्तु परिग्रह इति । 'पणिहाणे' चि प्रकर्षेण नियते आलम्बने धानं - धरणं मनःप्रभृतेरिति प्रणिधानं । 'एवं जहा सत्तमस' (सू. ६३५ ) इत्यादिना यत्सूचितं तच्चेदं, कालोदाई सेलोदाईसेवालोदाईप्रभृतिकानामन्ययूथिकानामेकत्रमिलितानां मिथः कथासंलापो जातो यन्महावीरः पञ्चारितकायान् धर्मास्तिकायादीन् प्रज्ञापयति, धर्माधर्म्माकाशपुद्गलास्तिकायान वेतनान् जीवास्तिकायं च सचेतनं, तथा धर्माधर्म्मा - |काशजीवास्तिकाया न रूपिणः, पुद्गलास्तिकायं च रूपिणं प्रज्ञापयति, 'से कहमेयं मण्णे'त्ति अथ कथमेतद्धर्मास्तिकायादि वस्तु मन्ये इति वितर्कार्थः, एवं सचेतनाचेतनादिरूपेण दृश्यमानत्वेनासम्भव स्तस्येति हृदयं, 'अविउप्पकड' त्ति अपिः सम्भावने उत्-प्राबल्येन प्रकृता - प्रस्तुता प्रकटा वा उत्प्रकृता उत्प्रकटा वा तथा अविद्वद्भिः - अजानद्भिः प्रकृता - प्रस्तुता अविद्वत्प्रकृता । 'जइ कज्जं कज्जइति यदि तैर्धर्मास्तिकायादिभिः कार्यं स्वकीयं क्रियते तदा तेन कार्येण तान् जानीमः पश्यामः, अवगच्छाम इत्यर्थः, धूमेनाग्निरिव, अथ तैः कार्यं न क्रियते तदा न जानीमो न पश्यामः, अयमभिप्रायः - कार्यादिलिङ्गद्वारेणैवाग्टशामतीन्द्रियपदार्थानामवगमः स्यात् न च धर्मास्ति कायादीनामस्मत्प्रतीतं किञ्चित् कार्यादिलिङ्गं दृश्यते इति तदभावात् तन्नो जानीम एव वयमिति, अथ मडकं धर्मास्तिकायाद्य परिज्ञानवन्तमुपालम्भयितुं यत्ते प्राहुः तदाह- 'केस नं'तिक एवं त्वं मड्डुक ! श्रमणोपासकानां मध्ये भवसि यस्त्वमेनमर्थं श्रमणोपासक ज्ञेयं धर्मास्तिकायाद्यस्तित्वलक्षगं न जानासि न पश्यसि १, न कश्चित् त्वमि त्यर्थः, एवमुपालब्धः सन्नसौ यत्तैरदृश्यमानत्वेन धर्मास्तिकायाद्यसम्भव उक्तः तद्विवटनेन तान् प्रतिहन्तुमिदमाह - 'घाणसहगए' इत्यादि, 'सुडु णं'ति सुष्ठु त्वं मड्डुक ! येन त्वया अस्तिकायानजानता न जानीम इत्युक्तं, अथ च अजानन्नपि यदि जानीम COLLOC १८ श० ७ उद्देशः ॥२४२॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy