________________
श्रीभग० लघुवृत्तौ
चापदाः, अजघन्योत्कृष्टपदे च स्यात्कृतयुग्मादय इत्यर्थः, तत्र जघन्योत्कृष्टपदापेक्षयाऽपदत्वं वर्द्धमानतया तेषामनियतपरिमाणत्वाद् भावनीयमिति || ' जावइया णं वर'त्ति (सू. ६२६) यावन्तः 'वर'त्ति अर्वाग्भागवर्त्तिनः, आयुष्कापेक्षया अल्पायुष्का इत्यर्थः 'अंधगवहिणो'त्ति अंहिपा - वृक्षास्तेषां वह्नयस्तदाश्रयत्वेनेत्यंहिपत्रह्नयो - बादराशिकाया इति, अन्ये त्वाहुः - अन्धका -अप्रकाशकाः सूक्ष्मनामकर्मोदयाद् ये वह्नयः ते अंधकवह्नयो जीवाः 'तावइअ'ति तत्परिमाणाः 'पर'त्ति पराः प्रकृष्टाः स्थितितो दीर्घायुष इति प्रश्नः, 'हन्ते' त्युत्तरमिति । १८ शते चतुर्थः ॥
'वेच्विय सरीर'त्ति (सू. ६२७) विभूषितवपुषः 'महाकम्मतराए चेव'त्ति (सू. ६२८) इह यावत्करणात् 'महाकिरिय तराए महासवतराए' त्ति दृश्यं, 'एगिंदियविगलिंदिअवज्जं 'ति इहै केन्द्रियादिवर्जन मेतेषां मायिमिध्यादृष्टित्वेनामाथिसम्यग्दष्टिविशेषणस्यायुज्यमानत्वात् || 'दो भंते! असुरकुमार त्ति (मू. ६३०) यच्चेह मायिमिध्यादृष्टीनामसुरकुमारादीनामृजु विकुर्वणेच्छायामपि चक्रविकुर्वणैव स्यात् तन्मायामिध्यात्वप्रत्ययिककर्मप्रभावात्, अमायिसम्यग्दृष्टीनां तु यद्यथेच्छं विकुर्वणा स्यात् तदाजैवोपेतसम्यक्त्वप्रत्ययकर्मवशादिति । १८ शते पञ्चमः ॥
'फाणिय'त्ति (सू. ६३० ) द्रवगुडः, 'गोड'त्ति गोल्यं - गोल्यरसोपेतं, व्यवहारो हि लोकतस्सङ्गच्छते, ततः शेषरसवर्णादीन् सतोऽप्युपेक्षत इति, 'निच्छय'ति निश्चयमतेन पञ्चवर्णादिपरमाणूनां तत्र विद्यमानत्वात् पञ्चवर्णादिरिति । 'परमाणुपोग्गले णमित्यादि (सू. ६२२ ) इह च परमाणुपुद्गले पञ्च द्वौ पञ्च च विकल्पाः, 'दुफ स'त्ति स्निग्धरूक्षशीतोष्णस्पर्शानामन्यतराविरुस्पर्शद्वययुक्त इति, इह ४ भेदाः शीतस्त्रिग्धयोः शीतरूक्षयोः उष्णस्निग्धयोः उष्णरूक्षयोश्च सम्बन्धादिति, 'सिय एगवण्णे' ति
११८ श०
४-५उ.
॥२४० ॥