________________
श्रीभग० लघुवृत्तौ
नवमात्मनो ज्ञानादिभिः, अकेवलिनस्साधोरिति, तस्य हि सर्वकर्म भवोपग्राहित्रयरूपं आयुषो भेदेनाभिधास्यमानत्वात्, वेदयतः - अनु- १८. शु०
३ उद्देशः
भवतः प्रदेशविपाकानुभवाभ्यां वा निर्जरयतः - आत्म प्रदेशेभ्योऽपि सर्वं कर्म्म भवोपग्राहित्रयरूपं शातयतः अथ सर्व सर्वायुःपुद् गलापेक्षं मारं मरणं त्रियमाणस्य गच्छतः सर्वमौदारिकादिवपुर्विजहतः चरमशरीरं चरमावस्थासत्कं 'मारणान्तिककम्मं ति मरणस्य समीपं मरणान्तः - आयुषश्वरमः समयः तत्र भवं मारणान्तिकं कर्म भवोपग्राहित्रयरूपं वेदयत एवं निर्जरयतः, 'सव्वलो -' गंपिणं' ति सर्वलोकमपि ते पुद्गला अवगाह्य तिष्ठन्तीति प्रश्नः अत्रोत्तरम् -'हंता मागंदियपुत्ते' त्यादि, 'अण्णत्तं' ति अन्यत्वं, अनगारद्वयसम्बन्धिनो ये पुद्गलास्तेषां भेदं 'णाणत्तं 'ति वर्णादिकृतं नानात्वं एवं जहा इंदिओ'त्ति एवं यथा प्रज्ञापनापञ्चदशपदस्य प्रथमोदेशके, तच्चैवं वाच्यं - 'ओमत्तं वा तुच्छत्तं वा गुरुयत्तं वा जाणइ पासइ ?, गोयमा ! नो इणट्ठे समट्ठे, से केणट्टेण०१, छउमत्थे णं भंते! मणुस्से तेसिं निजरापुग्गलाणं नो किंचि आणत्तं वा जाणइ २ १, गोयमा ! | देवेऽवि य णं अत्थेगइए जे णं तेसिं निजरा० जाणइ ?, गो०! नो इण०, से केण०, देवेऽवि य णं जाणइ २, से तेणद्वेणं गोयमा ! एवं बुच्चइ छउमत्थे णं मणूसे तेसिं निज्जरा० जाणइ, सुहुमा णं ते पुग्गला पण्णत्ता समणाउसो !, सव्वंपि णं लोगं ते ओगाहित्ताणं चिडंति' एतच्च व्यक्तं, नवरं ओमत्तं - अवमत्वं ऊनता तुच्छत्वमित्यादि ग्रन्थगौखभयादिह नोच्यते । 'दुविहे 'ति (सू. ६२१) द्रव्यबन्ध आगमादिभेदादनेकविधः, केवलमुभयव्यतिरिक्तो ग्राह्यः, स च द्रव्येणस्नेहरज्ज्वादिना द्रव्यस्य वा परस्परेण बन्धो द्रव्यबन्धः, 'भावबंधे य'त्ति भावबन्ध आगमादिभेदाद् द्विधा, स चेह नोआगमतो ग्राह्यः, तत्र भावेन - मिथ्यात्वादिना भावस्य वोपयोगभावाव्यतिरेकात् जीवस्य बन्धो भावबन्धः, 'पओगबंधे 'ति जीवप्रयो
POLLING JOLGOCHOUJOCDOCTO