SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ श्रीभग लघुवृत्तो Modeunha RIHARAHINODHARAM. करणात् स्याचरमः स्यादचरमः, इति दृश्य, तत्राभिनिवोधिकादि ज्ञानं यः केवलज्ञानप्राप्त्या पुनरपि न लप्स्यते स चरमः, अन्यस्त्वचरमः,'जस्स जं अत्थि'त्ति यस्य जीवनारकादेमुदाभिनिबोधिकाद्यस्ति तस्य तद्वाच्य, तच्च प्रतीतमेव, केवलि त्ति केवलज्ञानी चरमो वाच्यः, अण्णाणी'ति अज्ञानी सभेदः स्याचरमः स्यादचरमः, योऽज्ञानं पुनर्न लप्स्यते स चरमः, यस्त्वभव्यो ज्ञानं न लप्स्यते असावचरमः, एवं यत्र यत्राहारकातिदेशः तत्र स्याचरमः स्यादचरम इति वाच्यं, शेषमप्यनयैव दिशाऽभ्युह्यं। अथ चरमाचरमलक्षणगाथामाह-'जो जं पाविहि'त्ति(*८०)यो जीवनारकादिर्यत् जीवत्वनारकादिकमप्रतिपतितं वा प्राप्स्यति-लप्स्यते || पुनः पुनर्भावं स तेन भावेन-तद्भावापेक्षयाऽचरमः स्यात् , तथाऽत्यन्तवियोगः-सर्वथा विरहो यस्य जीवादेर्येन भावेन स तेनेति | शेषः चरमः स्यादिति ।। १८ शते प्रथमः॥ __'निगमपढमासणिपत्ति (सू. ६१८) नैगमा-वाणिज्यकास्तेषु प्रथमासनिको-वृद्धः, 'कजेसुति गृहकरणस्वजनसन्मानादिकृत्येषु 'कारणेसु'त्ति कृषिवाणिज्यादिहेतुषु 'कोडंबेसु'त्ति कौटुम्बिकेषु-सम्बन्धिजनेषु यथा राजप्रश्नीये, तचैवम्-मंतेसु गुज्झेसु रहस्सेसु ववहारेसु निच्छएसु आपुच्छणिज्जे' इत्यादि, मन्त्रेषु-आलोचेषु गुह्येषु-लज्जनीयव्यवहारगोपनेषु रह-| स्वेषु-एकान्तयोग्येषु आप्रच्छनीयः- प्रष्टव्य इति गम्यं ।। १८ शते द्वितीयः॥ 'मंडियपुत्ते जाव'त्ति (म . ६१९) यावत्करणात् पगइउवसंते पयणुकोहमाणमायालोभे इत्यादि दृश्य, इह पृथिव्यब्| वनस्पतीनामनन्तरभवे मानुषत्वप्रायाऽन्तक्रिया सम्भवति, यथा मरुदेव्याः, न तेजोवायूनां, तेषामानन्तर्येण मानुषत्वाप्राप्तेः, अतः | पृथिव्यादित्रयस्यैवान्तक्रियामाश्रित्य 'से नूण'मित्यादिना प्रश्नः कृतो, न तेजोवायूनां । 'भावियप्पणो'त्ति (सू. ६२०) भावि INDA samrounitusmiritualimmaturilanmitFilmediuminantreptilin this R ANTIPUnmumai २३८॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy