SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ श्रीभग लघुवृत्तौ| चरमेत्ति यो नारकः सिद्धिं यास्यति स चरमः, अन्यस्त्वचरमः, पुनर्नरकगमनात , एवं यावद्वैमानिकः, 'सिद्धे जहा जीवे'त्ति अचरम इति, नहि सिद्धः सिद्धतया विनंक्ष्यतीति । 'जीवा गं'ति बहुत्वदण्डकः तादृगेव, आहारकद्वारे 'आहारए सव्वत्यत्ति सर्वेषु जीवादिपदेषु 'सिय चरमे सिय अचरमे'त्ति कश्चिच्चरमो यो निर्वास्थति, अन्यस्त्वचरमः। आहारकपदेऽनाहारकत्वेन जीवः | सिद्धश्चाचरमो वाच्यः, अनाहारकत्वस्य तदीयस्याशाश्वतत्वात् जीवश्चेह सिद्धावस्थ एव, 'सेसहाणेसुत्ति नारकादिपदेषु 'जहा आहारउ'त्ति स्याच्चरमः स्यादचरम इत्यर्थः, यो नारकादित्वेनानाहारकत्वं पुनर्न लप्स्यते स चरमः, यस्तु तत् लप्स्यतेऽसावचरमः, भव्यद्वारे 'भवसिद्धिउत्ति भव्यो जीवो भव्यत्वेन चरमः, सिद्धिगमनेन भव्यत्वस्य चरमत्वप्राप्तेः, एतच्च सर्वेऽपि जीवा भवसिद्धिकाः सेत्स्यन्तीति वचःप्रामाण्यादित्युक्तं, 'अभवसिद्धिओ सब्वत्थे ति सर्वेषु जीवादिपदेषु 'नो चरम'त्ति अभव्यस्य | भव्यत्वाभावात् , 'नोभव'त्ति उभयनिषेधवान् जीवपदे सिद्धिपदे च भवसिद्धिकवदचरमः, तस्य च सिद्धत्वात् सिद्धस्य सिद्धत्वप| र्यायानपगमादिति, संज्ञिद्वारे संज्ञा 'जहाऽऽहारउ'त्ति संज्ञित्वेन स्याच्चरमः स्यादचरमः, एवमसंड्यपि, उभयनिषेधवांश्च जीवः सिद्धश्चाचरमो, मनुष्यस्तु चरमः, उभयनिषेधवतो मनुष्यस्य केवलित्वेन पुनर्मनुष्यत्वस्यालाभादिति । लेश्याद्वारे 'सलेसे'त्ति 'जहा आहारओति स्याचरमः स्यादचरमः, तत्र ये मुक्तिगामिनस्ते सलेश्यत्वस्य चरमाः, अन्ये त्वचरमाः। दृष्टिद्वारे-'सम्मद्दिट्ठी जहा अणाहारओति जीवस्सिद्धश्च सम्यग्दृष्टिरचरमः, यतो जीवस्य सम्यक्त्वं प्रतिपतितमप्यवश्यंभावि, सिद्धस्य तु तन्न प्रतिपतत्येव, नारकादयस्तु स्याच्चरमाः,ये नारकादयो नारकत्वादिना सह पुनः सम्यक्त्वं न लप्स्यन्ते ते चरमाः, ये त्वन्यथा तेऽचरमाः, 'मिच्छदिट्ठी जहा आहारओत्ति स्याचरमः स्यादचरमः, यो जीवो मुक्तिगामी स मिथ्यादृष्टित्वेन चरमः, ॥२३७॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy