SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ श्रीभग० लघुवृत्तौ | एतदपि आहारकवदप्रथममित्यर्थः, 'जस्स जो जोगो अस्थि त्ति जीवनारकादिदण्डक चिन्तायां यस्य जीवादेर्मनोयोगादियोऽस्ति स तस्य वाच्यः, स च प्रतीत एव । 'अजोगि ́त्ति जीवो मनुष्यः सिद्धवायोगी स्यात् स च प्रथम एव । उपयोगद्वारे 'सागारे 'त्ति 'जहा अणाहारए'त्ति साकारोपयुक्ता अनाकारोपयुक्ताश्च यथाऽनाहारकोऽभिहितस्तथा वाच्याः, ते जीवपदे स्यात्प्रथमः सिद्धापेक्षया, स्यादप्रथमः संसार्यपेक्षया, नारकादिवैमानिकान्तपदेषु न प्रथमाः अप्रथमाः, अनादित्वात् तल्लाभस्य, सिद्धपदे तु प्रथमाः, साकारानाकारोपयोगविशेषितस्य सिद्धत्वस्य प्रथमत एव भावात्, वेदद्वारे 'सवेयग' त्ति 'जहा आहारय'त्ति अप्रथम एवेत्यर्थः, नवरं 'जस्स जो वेदो अस्थि'त्ति जीवादिदण्डक चिन्तायां यस्य नारकादेर्नपुंसकादिवेदो योऽस्ति स तस्य वाच्यः, स प्रतीत एव, 'अवेयग'त्ति अवेदको यथाऽकपायी तथा वाच्यस्त्रिष्वपि पदेषु जीवमनुष्यसिद्धलक्षणेषु, तत्र जीवमनुष्यपदयोः स्यादप्रथमः अवेदकत्वस्य प्रथमेतरलाभापेक्षया, सिद्धस्तु प्रथम एव । शरीरद्वारे - 'ससरीर' त्ति अयमप्याहारकवदप्रथम एव, नंबरं 'आहारकसरीरत्ति जहा सम्मद्दिट्ठि'त्ति स्यात्प्रथमः स्यादप्रथम इति, अयं च प्रथमेतरलाभापेक्षया, अशरीरी जीवः सिद्धश्च स प्रथम एव । पर्याप्तिद्वारं- 'पंचाहिं 'ति पञ्चभिः पर्याप्तिभिः पर्याप्तः ताभिरपर्याप्तकच आहारकवदप्रथम इति, 'जस्स जा अस्थि' दण्डकचिन्तायां यस्य याः सन्ति तस्य ताः पर्याप्तयो वाच्याः ताव प्रतीता एवेति । अथ प्रथमा प्रथमलक्षणगाथामाह'जो जेण' (७९) गाहत्ति पूर्वार्द्ध कण्ठ्यं, 'सेसेसु' ति सप्तम्यास्तृतीयार्थत्वात् शेषैः- प्राप्तपूर्व भावव्यतिरिक्तैः स्यात् प्रथमः, शेषैः कथंभूतैः ? - अप्राप्तपूर्वैर्विभावैरिति । अथ चरमादित्वं सर्वद्वारेष्वाह - 'जीवे णं'ति जीवो भदन्त ! जीवत्वेन किं चरमः १, किं जीवत्वं मोक्ष्यतीत्यर्थः, अचरमत्ति ?, जीवत्त्वं न मोक्ष्यतीत्यर्थः इति प्रश्नः अत्रोत्तरम् - न चरमः, शाश्वतत्वात्, 'सिय DOLPOLDO DE १८ शु० १ उद्देशः
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy