________________
श्रीभगव लघुवृत्तौ
संसारी, संसारिणो विग्रहगतावनाहारकत्वेन प्रथमो यथा सिद्धः, कश्चिच्चाप्रथमो यथा संसारी, संसारिणो विग्रहगतावनाहारकत्व - स्यानन्तशः प्राप्तपूर्वत्वात् 'एकेके पुच्छा भाणियव्य'त्ति यत्र पृच्छावाक्यं न लिखितं तत्रैकस्मिन् पदे पृच्छावाक्थं वाच्यं । भव्यद्वारे 'भवसिद्धिए' इत्यादि, भवसिद्धिक एकत्वेन बहुत्वेन च यथाऽऽहारकस्तथा वाच्यः, अप्रथम इत्यर्थः, यतो भव्यस्य भव्यत्वमनादिसिद्धमतोऽसौ भव्यत्वेन न प्रथमः, एवमभवसिद्धिकोऽपि, 'नोभवसिद्धिएनोअभवसिद्धिए णमित्यादि, इह च जीवपदं सिद्धपदमध्यात् सम्भवति, न तु नारकादीनि, नोभवसिद्धिकनोअभवसिद्धिकपदेन सिद्धस्यैवाभिधानात् तयोरेकत्वे पृथक्त्वे प्रथमत्वं वाच्यं, संज्ञिद्वारे - 'सणीनं 'ति संज्ञी जीवः संज्ञिभावेनाप्रथमः, अनन्तशः संज्ञित्वभावात्, 'विगलिंदियवज्जं 'ति एकद्वित्रिचतुरिन्द्रियान् वर्जयित्वा शेषा नारकादिवैमानिकान्ताः संज्ञिनोऽप्रथमतया वाच्या इत्यर्थः, एवमसंज्ञ्यपि, नवरं 'जाव वाणमंतर'ति असंज्ञित्वविशेषितानि जीवनारकादीनि व्यन्तरान्तानि पदान्यप्रथमतया वाच्यानि तेषु हि संज्ञिष्वपि भूतपूर्वतयाऽसंज्ञित्वं लभ्यते, असंज्ञिनामुत्पादात् पृथव्यादयस्तु असंज्ञिन एव तेषां अप्रथमत्वमेव, अनन्तशस्तल्लाभात् उभयनिषेधपदं च जीवमनु| ष्यसिद्धेषु लभ्यते तत्र प्रथमत्वं वाच्यं, अत उक्तं- 'नो सण्णी'त्यादि । लेश्याद्वारे 'सले से णं'ति 'जहा आहारए'त्ति अप्रथम इत्यर्थः, अनादित्वात् सलेश्यभावस्य 'नवरं जस्स जा लेस्सा अस्थि'त्ति यस्य नारकादेर्या कृष्णलेश्यादिर्लेश्याऽस्ति सा तस्य वाच्या, इदं च प्रतीतमेव, अलेश्यापदं तु जीवमनुष्यसिद्धेष्वस्ति तेषां च प्रथमत्वं वाच्यं नोसंज्ञिनोअसंज्ञिनामेवेति एतदाह'अले से' त्यादि । दृष्टिद्वारे - 'सम्मद्दिट्ठीए णं'ति 'सिय अपढमे' त्ति कश्चित्सम्यग्दृष्टिर्जीवः सम्यग्दृष्टितया प्रथमः यस्य तत्प्रथमतया दर्शनलाभः कश्चिच्चाप्रथमो, येन प्रतिपतितं सत् सम्यग्दर्शनं पुनर्लब्धमिति, एवं 'एगिंदियवज्जं 'ति एकेन्द्रियाणां सम्यक्त्वं
१८ श० १ उद्देशः