SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ श्रीभग लघुवृत्ती |च्छति, सब्वेणं समोहण्णमाणे त्ति गेन्दुकगत्या गच्छनित्यर्थः, पूर्वमुत्पद्य सर्वात्मनोत्पाददेशमासाद्य पश्चात् 'संपाउणेज'त्ति पुद्गलग्रहणं कुर्यादिति ॥ १७ शते षष्ठः॥ शेषास्सुगमा एव (सू.६०६-६१६) सप्तदशशतं लघुवृत्तितःसम्पूर्णम् ।। ।१८० १ उद्देशः अथ अष्टादशमारभ्यते, 'पढमति (*७८) जीवादिपदार्थानां प्रथमाप्रथमत्वादिवाच्यः १ 'विसाह'त्ति विशाखानगरीवाच्यः २'मागंद'त्ति माकन्दीपुत्राख्यसाधुवाच्यः ३ 'पाणाइवाय'न्ति प्राणातिपातं ४ 'असुरति असुरवाच्यः ५, 'गुल'त्ति गुलाद्यर्थविशेषवाच्यः ६ वे वली ७, 'अणगार'त्ति अनगारः ८, 'भविय'त्ति भव्यद्रव्यनारकादिवाच्यः ९ 'सोमिल'त्ति सोमि| लद्विजवाच्यः, १०, इति उद्देशकसङ्ग्रहगाथार्थः । अत्र उद्देशकद्वारगाथामाह-"जीवाहारगभवसंणी लेस दिट्ठी य संजय कसाए। नाणे जोगुवओगे वेए य सरीरपज्जत्ती ॥१॥" प्रथमद्वारमाह-'जीवे णं भंतेत्ति (सू . ६१७) जीवो भदन्त ! जीवभावेन-जीव| त्वेन किं प्रथमः ?, किं जीवत्वमसत्प्रथमतया प्राप्तं, उत 'अपढमति अप्रथमः, अनाद्यवस्थितजीवत्व इत्यर्थः, अत्रोत्तरम्-'अपढमें त्ति इह प्रथमत्वाप्रथमत्वयोर्लक्षणगाथा-जो जेण पत्तपुब्यो भावो सो तेण अपढमो होइ । जो जं अपत्तपुव्वं पावइ सो तेण पढमोत्ति ।" 'एवं नेरइए'त्ति नारकोऽप्यप्रथमः, अनादिसंसारे नारकत्वस्थानन्तशः प्राप्तपूर्वत्वात, 'सिद्धे णं भंते !' इत्यादी 'पढमे'त्ति सिद्धेन सिद्धत्वस्याप्राप्तपूर्वस्य प्राप्तत्वात् तेनासौ प्रथम इति, बहुत्वेऽप्येवमेव, आहारकद्वारे 'आहारए ण'मित्यादि, आहारकत्वेनाप्रथमः, अनन्तभवेऽनन्तशः प्राप्तपूर्वत्वादाहारकत्वस्य, एवं नारकादिरपि, सिद्धस्त्वाहारकत्वे न पृच्छयते, अनाहारकत्वात्तस्येति, 'अणाहारए गं'ति 'सिय पढमेत्ति स्यादिति कश्चिजीवोऽनाहारकत्वेन प्रथमः, यथा सिद्धः, कश्चिच्चाप्रथमो यथा ॥२३५॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy