________________
wilmy
Pram
श्रीभग लघुवृत्ती
५-६ उ.
| निति वाक्यशेषो दृश्यः, एवं देशे प्रदेशेऽपि वाच्यम् । १७ शते चतुर्थः ।। __ 'जहा ठाणपए'त्ति (सू. ६०४) प्रज्ञापनाद्वितीयपदे, तच्चैवम्-उर्दू चंदिममूरियगहगणनक्खत्ततारारूवाणं बहूई जोयणसयाई जोयणसहस्साई जाव उप्पइत्ता एत्थ णं ईसाणे णामे कप्पे पण्णत्ते' इत्यादि, शक्रविमानवक्तव्यता, सा चैत्रम्-'अद्धतेरसजोपणसयसहस्साई आयामविक्खंभेणं ओयालीसंजोयणसयसहस्साई बावन्नं च सहस्साई अट्ट य अडयाले जोयणसए परिक्खेवेण मित्यादि। ॥१७ शते पञ्चमः॥
'समोहए'त्ति (सू. ६०५) समवहतः-कृतमारणान्तिकसमुद्घातः 'उववजईत्ति उत्पादक्षेत्रं गत्वा 'संपाउणेज'त्ति पुद्गल| ग्रहणं कुर्यात् उत व्यत्यय इति प्रश्नः, गो०! पुचि वा उववजित्ता पच्छा संपाउणेजा' मारणान्तिकसमुद्घातान्नित्यं यदा प्राक्तनशरीरस्य त्यागात् कन्दुकगत्योत्पत्तिदेशं गच्छति तदोच्यते-पूर्वमुत्पद्य पश्चात् सम्प्राग्रुयात्-पुद्गलान् गृह्णीयात् , आहारयेदित्यर्थः, 'पुटिव वा संपाउणित्ता पच्छा उववजिज'त्ति यदा मारणान्तिकसमुद्घातगत एव म्रियते इलिकागत्योत्पादस्थानं याति तदोच्यते-पूर्व सम्प्राप्य-पुद्गलान् गृहीत्वा पश्चात् उत्पद्यते, प्राक्तनशरीरस्थजीवप्रदेशसंहरणतः, समस्तजीवप्रदेशैः मृत्वा क्षेत्रं गतस्स्यात् इति भावः १ 'देसेण वा समोहण्णइ सव्वेण वा समोहण्णइ'त्ति यदा मारणान्तिकसमुद्घातगतो म्रियते तदेलिकागत्योत्पत्तिदेशं गच्छति, तत्र जीवदेशस्य पूर्वदेह एव स्थितत्वात् देशस्य चोत्पत्तिदेशे प्राप्तत्वात् देशेन समवहत इत्युच्यते, यदा तु मारणान्तिकसमुद्घातात् प्रतिनिवृत्तः सन् म्रियते तदा सर्वप्रदेशसंहारणतोगेन्दुकगत्योत्पत्तिदेशप्राप्तौ सर्वेण समवहत इन्युच्यते, तत्र च देशेन समवहन्यमान इलिकागत्या गच्छन्नित्यर्थः, पूर्व सम्प्राप्य-पुद्गलान् गृहीत्वा पश्चादुत्पद्यते, सर्वात्मनोत्पादक्षेत्रे आग
Comments