SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ श्रीभग० लघुवृत्तौ वृत्तवन्तः 'चिइंसु 'त्ति कृतवन्तः अनुभूतवन्तो वेत्यर्थः ॥ 'चलणे 'त्ति (सू. ६००) एजनैव स्फुटतरा 'सरीरबल त्ति औदारि- १७ श० ३-४उ. कादिवपुश्चलना तत्प्रायोग्यपुद्गलानां तद्रूपतया परिणामने व्यापारः चलना, एवमिन्द्रिययोगचलने अपि 'चलिस' त्ति औदारिकवपुश्चलनं कृतवन्तः 'निब्बेए' त्ति (सू. ६०१ ) निर्वेदः - संसारविरक्तता 'गुरुसाहम्मिय'त्ति गुरूणां साधम्मिकाणां सामान्यसाधूनां शुश्रूषणा-सेवा निन्दनं आत्मसाक्षिकं गर्हणं परसाक्षिकम् 'विणिवद्दणयाए 'त्ति व्यवशमनता परस्मिन् क्रोधान्निर्वर्त्तयति क्रोधोज्झनं श्रुतसहायता 'भावे'त्ति हास्यादावप्रतिबद्धता 'विउसमणम'त्ति विनिवर्तनमसंयमस्थानेभ्यः 'विवित्त'त्ति विविक्तख्यादिरहितशयनासनसेवनता सा तथा 'जोगपच्चक्खाण'त्ति योगानां - मनःप्रभृतीनां प्राणातिपातादिषु प्रत्याख्यानं योगप्रत्याख्यानं, 'सरीर'त्ति विषयवर्जनं वपुः प्रत्याख्यानं, कषायप्रत्या० क्रोधादिवर्जनं 'संभोगपचक्खाणे 'ति सम्भोगः - स्वान्यलाभमीलनात्मकेन भोग एकमण्डलीभोक्तृत्वमित्यर्थः, तत्प्रत्याख्यानं जिनकल्पादिप्रतिपच्या परिहारः 'उबहि'त्ति उपधिप्रत्या० अधिकोपधिवर्जनं, क्षमा, 'भावसच्चेति भावसत्यं पारमार्थिकावितथत्वं, मनस इत्यर्थः, 'एवं जोगसचे 'त्ति योगा मनोवाक्कायास्तेषां सत्यं योगसत्यं, 'करण'त्ति करणे - प्रतिलेखनादौ यथोक्तविधिकर्तृत्वं करणसत्यम् 'मणसमन्नाहारणय'त्ति मनसः समितिसम्यक् अन्विति - स्वावस्थानानुरूपेण आहरणं संक्षेपणं मनस्समन्वाहरणता, एवमितरे अपि, कोधविवेकः - क्रोधत्यागः 'वेयण'ति वेदना क्षुधादिव्यथासहनं 'मारणंति०' मारणान्तिकोपसर्गसहनेन ।। १७ शते तृतीयः ॥ 'जहां पढमसए'त्ति (सू. ६०२) यथा प्रथमशतपष्ठोद्देश के, सा चैवम्- 'सा भंते ! ओगाढा कजइ ?, गो० ! ओगाढा कजड़, णो अणोगाढा कञ्ज' इत्यादि व्याख्या प्राग्वत्, 'जंसमयं ' यस्मिन् समये प्राणातिपातेन क्रिया-कर्म क्रियते इह स्थाने तस्मि ॥२३४॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy